Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनःअश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥१॥
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैःरथानां नेमिघोषैश्च दीर्यतीव वसुंधरा ॥२॥
हयानां हेषमाणानां योधानां तत्र गर्जताम्क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ॥३॥
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव चसमकम्पन्त सैन्यानि परस्परसमागमे ॥४॥
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताःभ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥५॥
ध्वजा बहुविधाकारास्तावकानां नराधिपकाञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥६॥
स्वेषां चैव परेषां च समदृश्यन्त भारतमहेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥७॥
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैःसंनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ॥८॥
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनःऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ॥९॥
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिपदुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥१०॥
विविंशतिश्चित्रसेनो विकर्णश्च महारथःसत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥११॥
रथा विंशतिसाहस्रास्तथैषामनुयायिनःअभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥१२॥
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथासौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥१३॥
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजःमहता रथवंशेन तेऽभ्यरक्षन्पितामहम् ॥१४॥
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्मागधो येन नृपतिस्तद्रथानीकमन्वयात् ॥१५॥
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्अभूवन्वाहिनीमध्ये शतानामयुतानि षट् ॥१६॥
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयःअनेकशतसाहस्रा नखरप्रासयोधिनः ॥१७॥
अक्षौहिण्यो दशैका च तव पुत्रस्य भारतअदृश्यन्त महाराज गङ्गेव यमुनान्तरे ॥१८॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 18

0
Adhyaya 18Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0