Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
व्युष्टां निशां भारत भारताना;मनीकिनीनां प्रमुखे महात्माययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः ॥१॥
तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौजयद्रथश्चातिबलो बलौघै;र्नृपास्तथान्येऽनुययुः समन्तात् ॥२॥
स तैर्महद्भिश्च महारथैश्च; तेजस्विभिर्वीर्यवद्भिश्च राजन्रराज राजोत्तम राजमुख्यै;र्वृतः स देवैरिव वज्रपाणिः ॥३॥
तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाःसुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः ॥४॥
सा वाहिनी शांतनवेन राज्ञा; महारथैर्वारणवाजिभिश्चबभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा ॥५॥
ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शांतनवाभिगुप्तासेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः ॥६॥
तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम्व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः ॥७॥
स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरःवरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम् ॥८॥
सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण संख्येकपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः ॥९॥
प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेनतं व्यूहराजं ददृशुस्त्वदीया;श्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥१०॥
यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेनतथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः ॥११॥
ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौशङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः ॥१२॥
ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैःक्षणेन भेरीपणवप्रणादा;नन्तर्दधुः शङ्खमहास्वनाश्च ॥१३॥
तच्छङ्खशब्दावृतमन्तरिक्ष;मुद्धूतभौमद्रुतरेणुजालम्महावितानावततप्रकाश;मालोक्य वीराः सहसाभिपेतुः ॥१४॥
रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुःगजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः ॥१५॥
आवर्तमानान्यभिवर्तमानै;र्बाणैः क्षतान्यद्भुतदर्शनानिप्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः ॥१६॥
सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैःविदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ॥१७॥
गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुःगजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम् ॥१८॥
गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याःआर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम् ॥१९॥
संभ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम्महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् ॥२०॥
तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातःमहास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शांतनवोऽभ्यधावत् ॥२१॥
तथैव शक्रप्रतिमानकल्प;मिन्द्रात्मजं द्रोणमुखाभिसस्रुःकृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन् ॥२२॥
ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्माजवेन शूरोऽभिससार सर्वां;स्तथार्जुनस्यात्र सुतोऽभिमन्युः ॥२३॥
तेषां महास्त्राणि महारथाना;मसक्तकर्मा विनिहत्य कार्ष्णिःबभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः ॥२४॥
ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम्जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः ॥२५॥
ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्रादमहास्वनेनविपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली ॥२६॥
तमुत्तमं सर्वधनुर्धराणा;मसक्तकर्मा कपिराजकेतुःभीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः ॥२७॥
एवंविधं कार्मुकभीमनाद;मदीनवत्सत्पुरुषोत्तमाभ्याम्ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनंजयाभ्याम् ॥२८॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 56

0
Adhyaya 56Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0