Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
धृतराष्ट्र उवाच
दैवमेव परं मन्ये पौरुषादपि संजययत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ॥१॥
नित्यं हि मामकांस्तात हतानेव हि शंससिअव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ॥२॥
हीनान्पुरुषकारेण मामकानद्य संजयपतितान्पात्यमानांश्च हतानेव च शंससि ॥३॥
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रतिपाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः ॥४॥
सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि चअश्रौषं सततं तात दुःसहानि बहूनि च ॥५॥
तमुपायं न पश्यामि जीयेरन्येन पाण्डवाःमामका वा जयं युद्धे प्राप्नुयुर्येन संजय ॥६॥
संजय उवाच
क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥७॥
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैःपीडयामास संक्रुद्धो मद्राधिपतिमायसैः ॥८॥
तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम्न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् ॥९॥
नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणेमुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥१०॥
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगेधनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥११॥
अथैनं शरवर्षेण छादयामास भारतगिरिं जलागमे यद्वज्जलदा जलधारिणः ॥१२॥
अभिमन्युस्तु संक्रुद्धो धृष्टद्युम्ने निपीडितेअभिदुद्राव वेगेन मद्रराजरथं प्रति ॥१३॥
ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनःआर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः ॥१४॥
ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणेमद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥१५॥
दुर्योधनो विकर्णश्च दुःशासनविविंशतीदुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः ॥१६॥
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारतएते मद्राधिपरथं पालयन्तः स्थिता रणे ॥१७॥
तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतःद्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥१८॥
नानारूपाणि शस्त्राणि विसृजन्तो विशां पतेअभ्यवर्तन्त संहृष्टाः परस्परवधैषिणःते वै समीयुः संग्रामे राजन्दुर्मन्त्रिते तव ॥१९॥
तस्मिन्दाशरथे युद्धे वर्तमाने भयावहेतावकानां परेषां च प्रेक्षका रथिनोऽभवन् ॥२०॥
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाःअन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ॥२१॥
ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवःमहास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ॥२२॥
दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणेविव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् ॥२३॥
दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिःदुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिःविविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ॥२४॥
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनःएकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ॥२५॥
सत्यव्रतं तु समरे पुरुमित्रं च भारतअभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ॥२६॥
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौछादयेतां शरव्रातैस्तदद्भुतमिवाभवत् ॥२७॥
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौशरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौछाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ॥२८॥
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलःविधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥२९॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥३०॥
दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥३१॥
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरःगदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ॥३२॥
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥३३॥
स गजान्गदया निघ्नन्व्यचरत्समरे बलीभीमसेनो महाबाहुः सवज्र इव वासवः ॥३४॥
तस्य नादेन महता मनोहृदयकम्पिनाव्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ॥३५॥
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथःनकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥३६॥
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा ॥३७॥
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपिपातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् ॥३८॥
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैःअश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥३९॥
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनःअदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ॥४०॥
धृष्टद्युम्नहतानन्यानपश्याम महागजान्पतितान्पात्यमानांश्च पार्षतेन महात्मना ॥४१॥
मागधोऽथ महीपालो गजमैरावतोपमम्प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥४२॥
तमापतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम्जघानैकेषुणा वीरः सौभद्रः परवीरहा ॥४३॥
तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयःराज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ॥४४॥
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवःव्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ॥४५॥
एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान्अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥४६॥
भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान्भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ॥४७॥
नदतः सीदतश्चान्यान्विमुखान्समरे गजान्विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ॥४८॥
भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान्अपश्याम हतान्नागान्निष्टनन्तस्तथापरे ॥४९॥
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाःविह्वलन्तो गता भूमिं शैला इव धरातले ॥५०॥
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितःव्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥५१॥
गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरःघोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ॥५२॥
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनःसहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ॥५३॥
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाःपर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥५४॥
शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैःकृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ॥५५॥
व्यायच्छमानं गदया दिक्षु सर्वासु भारतनृत्यमानमपश्याम नृत्यन्तमिव शंकरम् ॥५६॥
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम्अपश्याम महाराज रौद्रां विशसनीं गदाम् ॥५७॥
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण चपिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥५८॥
यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत्तथा भीमो गजानीकं गदया पर्यकालयत् ॥५९॥
गदया वध्यमानास्ते मार्गणैश्च समन्ततःस्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ॥६०॥
महावात इवाभ्राणि विधमित्वा स वारणान्अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥६१॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 58

0
Adhyaya 58Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0