Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
भीष्म उवाच
ततः स भगवान्देवो लोकानां परमेश्वरःब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा ॥१॥
विदितं तात योगान्मे सर्वमेतत्तवेप्सितम्तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥२॥
ततो देवर्षिगन्धर्वा विस्मयं परमं गताःकौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥३॥
को न्वयं यो भगवता प्रणम्य विनयाद्विभोवाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥४॥
एवमुक्तस्तु भगवान्प्रत्युवाच पितामहःदेवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥५॥
यत्तत्परं भविष्यं च भवितव्यं च यत्परम्भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥६॥
तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाःजगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ॥७॥
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतःअसुराणां वधार्थाय संभवस्व महीतले ॥८॥
संग्रामे निहता ये ते दैत्यदानवराक्षसाःत इमे नृषु संभूता घोररूपा महाबलाः ॥९॥
तेषां वधार्थं भगवान्नरेण सहितो वशीमानुषीं योनिमास्थाय चरिष्यति महीतले ॥१०॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौसहितौ मानुषे लोके संभूतावमितद्युती ॥११॥
अजेयौ समरे यत्तौ सहितावमरैरपिमूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥१२॥
तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिःवासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥१३॥
तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाःनावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥१४॥
एतत्परमकं गुह्यमेतत्परमकं पदम्एतत्परमकं ब्रह्म एतत्परमकं यशः ॥१५॥
एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत्एतत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ॥१६॥
एतत्परमकं तेज एतत्परमकं सुखम्एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥१७॥
तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमःनावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥१८॥
यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीःहृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥१९॥
योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम्अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ॥२०॥
देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्पद्मनाभं न जानाति तमाहुस्तामसं जनाः ॥२१॥
किरीटकौस्तुभधरं मित्राणामभयंकरम्अवजानन्महात्मानं घोरे तमसि मज्जति ॥२२॥
एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरःवासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ॥२३॥
एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुराविसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् ॥२४॥
ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि चकथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥२५॥
एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्वासुदेवं कथयतां समवाये पुरातनम् ॥२६॥
जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतःव्यासनारदयोश्चापि श्रुतं श्रुतविशारद ॥२७॥
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम्वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥२८॥
यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिताकथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥२९॥
वारितोऽसि पुरा तात मुनिभिर्वेदपारगैःमा गच्छ संयुगं तेन वासुदेवेन धीमतामा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे ॥३०॥
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतःयस्माद्द्विषसि गोविन्दं पाण्डवं च धनंजयम्नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः ॥३१॥
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययःसर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥३२॥
लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुःयोद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥३३॥
राजन्सत्त्वमयो ह्येष तमोरागविवर्जितःयतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥३४॥
तस्य माहात्म्ययोगेन योगेनात्मन एव चधृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥३५॥
श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यःबलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥३६॥
स एष शाश्वतो देवः सर्वगुह्यमयः शिवःवासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥३७॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैःसेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥३८॥
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य चसात्वतं विधिमास्थाय गीतः संकर्षणेन यः ॥३९॥
स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्चयुगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः ॥४०॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 62

0
Adhyaya 62Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0