Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
अकरोत्तुमुलं युद्धं भीष्मः शांतनवस्तदाभीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥१॥
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्ततकुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥२॥
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभयेअभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥३॥
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिःभेरीशङ्खनिनादैश्च तुमुलः समपद्यत ॥४॥
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःअन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ॥५॥
शिरसां पात्यमानानां समरे निशितैः शरैःअश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ॥६॥
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि चपतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥७॥
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैःसहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥८॥
कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैःमुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥९॥
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपतेआसीत्सर्वा समाकीर्णा मुहूर्तेन वसुंधरा ॥१०॥
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैःआयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥११॥
स संप्रहारस्तुमुलः कटुकः शोणितोदकःप्रावर्तत कुरूणां च पाण्डवानां च भारत ॥१२॥
तस्मिन्महाभये घोरे तुमुले लोमहर्षणेववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥१३॥
क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताःतावकानां परेषां च संयुगे भरतोत्तमअश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥१४॥
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताःतावकानां परेषां च योधानां भरतर्षभ ॥१५॥
अश्वानां कुञ्जराणां च रथानां चातिवर्तताम्संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते ॥१६॥
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिःजघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः ॥१७॥
अपरे बाहुभिर्वीरा नियुद्धकुशला युधिबहुधा समसज्जन्त आयसैः परिघैरिव ॥१८॥
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पतेअन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ॥१९॥
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःअन्योन्यमभिधावन्त परस्परवधैषिणः ॥२०॥
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतःपुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥२१॥
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः ॥२२॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 66

0
Adhyaya 66Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0