Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदःविकृष्य चापं समरे भारसाधनमुत्तमम् ॥१॥
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान्प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ॥२॥
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतःआददानस्य भूयश्च संदधानस्य चापरान् ॥३॥
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतःददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥४॥
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततःरथानामयुतं तस्य प्रेषयामास भारत ॥५॥
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमःजघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥६॥
स कृत्वा दारुणं कर्म प्रगृहीतशरासनःआससाद ततो वीरो भूरिश्रवसमाहवे ॥७॥
स हि संदृश्य सेनां तां युयुधानेन पातिताम्अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥८॥
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुःव्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान्सहस्रशो महाराज दर्शयन्पाणिलाघवम् ॥९॥
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाःन विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततःविहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ॥१०॥
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाःमहारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥११॥
समासाद्य महेष्वासं भूरिश्रवसमाहवेऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥१२॥
भो भो कौरवदायाद सहास्माभिर्महाबलएहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥१३॥
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगेवयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ॥१४॥
एवमुक्तस्तदा शूरैस्तानुवाच महाबलःवीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ॥१५॥
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वःयुध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥१६॥
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणःमहता शरवर्षेण अभ्यवर्षन्नरिंदमम् ॥१७॥
अपराह्णे महाराज संग्रामस्तुमुलोऽभवत्एकस्य च बहूनां च समेतानां रणाजिरे ॥१८॥
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन्प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ॥१९॥
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान्असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः ॥२०॥
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्यदेको बहुभिर्युद्धे समसज्जदभीतवत् ॥२१॥
विसृज्य शरवृष्टिं तां दश राजन्महारथाःपरिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥२२॥
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारतचिच्छेद दशभिर्बाणैर्निमेषेण महारथः ॥२३॥
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिःचिच्छेद समरे राजञ्शिरांसि निशितैः शरैःते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ॥२४॥
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान्वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ॥२५॥
रथं रथेन समरे पीडयित्वा महाबलौतावन्योन्यस्य समरे निहत्य रथवाजिनःविरथावभिवल्गन्तौ समेयातां महारथौ ॥२६॥
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौशुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥२७॥
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥२८॥
तवापि तनयो राजन्भूरिश्रवसमाहवेआरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥२९॥
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥३०॥
लोहितायति चादित्ये त्वरमाणो धनंजयःपञ्चविंशतिसाहस्रान्निजघान महारथान् ॥३१॥
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणेसंप्राप्यैव गता नाशं शलभा इव पावकम् ॥३२॥
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाःपरिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥३३॥
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छतिसर्वेषामेव सैन्यानां प्रमोहः समजायत ॥३४॥
अवहारं ततश्चक्रे पिता देवव्रतस्तवसंध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥३५॥
पाण्डवानां कुरूणां च परस्परसमागमेते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥३६॥
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारतपाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥३७॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 70

0
Adhyaya 70Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0