Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
तथा तु नर्दमानं तं भीमसेनं महाबलम्मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥१॥
न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजयक्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥२॥
गदामुद्यच्छमानस्य कालस्येव महामृधेन हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥३॥
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण चकस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥४॥
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतःदुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥५॥
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम्प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥६॥
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगेकालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७॥
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतःके शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय ॥८॥
संजय उवाच
तथा तु नर्दमानं तं भीमसेनं महारथम्तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥९॥
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणःकर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥१०॥
प्रावेपन्निव गात्राणि कर्णभीमसमागमेरथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥११॥
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरेखं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः ॥१२॥
पुनर्घोरेण नादेन पाण्डवस्य महात्मनःसमरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥१३॥
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुःवाहनानि महाराज बभूवुर्विमनांसि च ॥१४॥
प्रादुरासन्निमित्तानि घोराणि च बहूनि चतस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥१५॥
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥१६॥
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणेसायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥१७॥
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिःचिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥१८॥
तं कर्णश्छादयामास शरव्रातैरनेकशःसंछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥१९॥
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथःविव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥२०॥
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजःविव्याध समरे भीमं भीमकर्मा महारथः ॥२१॥
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणःनिचखानोरसि तदा सूतपुत्रस्य वेगितः ॥२२॥
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदामहीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥२३॥
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिःधातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥२४॥
किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितःससायकं धनुः कृत्वा भीमं विव्याध मारिषचिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥२५॥
स छाद्यमानः सहसा कर्णेन दृढधन्विनाधनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥२६॥
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम्वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः ॥२७॥
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पतेस्यन्दनं वृषसेनस्य समारोहन्महारथः ॥२८॥
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥२९॥
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरःकर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥३०॥
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदाशत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन्गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥३१॥
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतःअश्रूयत महाराज सर्वसैन्येषु भारत ॥३२॥
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौमृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥३३॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 104

0
Adhyaya 104Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0