Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ॥१॥
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणेन च कर्णसमं योधं लोके पश्यामि कंचनइति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥२॥
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमःइति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥३॥
वसुषेणसहायं मां नालं देवापि संयुगेकिमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥४॥
तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम्युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥५॥
अहो दुर्मुखमेवैकं युद्धानामविशारदम्प्रावेशयद्धुतवहं पतंगमिव मोहितः ॥६॥
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताःन शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय ॥७॥
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥८॥
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥९॥
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितःभीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥१०॥
योऽजयत्समरे कर्णं पुरंदर इवासुरम्न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥११॥
द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम्भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः ॥१२॥
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतःउद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ॥१३॥
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवःन भीमसेनं संप्राप्य निवर्तेत कदाचन ॥१४॥
पतंगा इव वह्निं ते प्राविशन्नल्पचेतसःये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः ॥१५॥
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥१६॥
तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम्दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥१७॥
यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुःकर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥१८॥
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय ॥१९॥
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान्आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥२०॥
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत्भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥२१॥
वडवामुखमध्यस्थो मुच्येतापि हि मानवःन भीममुखसंप्राप्तो मुच्येतेति मतिर्मम ॥२२॥
न पाण्डवा न पाञ्चाला न च केशवसात्यकीजानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ॥२३॥
संजय उवाच
यत्संशोचसि कौरव्य वर्तमाने जनक्षयेत्वमस्य जगतो मूलं विनाशस्य न संशयः ॥२४॥
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितःउच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥२५॥
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥२६॥
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम्अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥२७॥
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥२८॥
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयःपाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ॥२९॥
ते समन्तान्महाबाहुं परिवार्य वृकोदरम्दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥३०॥
आगच्छतस्तान्सहसा कुमारान्देवरूपिणःप्रतिजग्राह समरे भीमसेनो हसन्निव ॥३१॥
तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान्अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥३२॥
विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान्तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥३३॥
कुरवस्तु ततः कर्णं परिवार्य समन्ततःअवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥३४॥
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान्ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥३५॥
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवःचित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥३६॥
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥३७॥
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततःसूतपुत्रो महाराज भीमसेनमवैक्षत ॥३८॥
तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनःविस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥३९॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 110

0
Adhyaya 110Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0