Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
महानपनयः सूत ममैवात्र विशेषतःस इदानीमनुप्राप्तो मन्ये संजय शोचतः ॥१॥
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम्इदानीमत्र किं कार्यं प्रकरिष्यामि संजय ॥२॥
यथा त्वेष क्षयो वृत्तो ममापनयसंभवःवीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय ॥३॥
संजय उवाच
कर्णभीमौ महाराज पराक्रान्तौ महाहवेबाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ॥४॥
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताःविविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ॥५॥
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैःआकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥६॥
तयोः शरैर्महाराज संपतद्भिः समन्ततःबभूव तव सैन्यानां संक्षोभः सागरोपमः ॥७॥
भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदमअवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥८॥
वारणैः पतितै राजन्वाजिभिश्च नरैः सहअदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥९॥
ते वध्यमानाः समरे भीमचापच्युतैः शरैःप्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥१०॥
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥११॥
ते शरातुरभूयिष्ठा हताश्वनरवाहनाःउत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ॥१२॥
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसःयत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥१३॥
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताःशरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥१४॥
ततः प्रावर्तत नदी घोररूपा महाहवेबभूव च विशेषेण भीरूणां भयवर्धिनी ॥१५॥
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवासंवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥१६॥
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैःस्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ॥१७॥
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैःसुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥१८॥
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैःप्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः ॥१९॥
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैःवज्रैश्च विविधाकारैः शक्तिभिः परिघैरपिशतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥२०॥
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैःतनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥२१॥
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपिगजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥२२॥
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरापतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः ॥२३॥
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥२४॥
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवेआसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम्निपातितध्वजरथं हतवाजिनरद्विपम् ॥२५॥
गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथातथाभूतं महत्सैन्यमासीद्भारत संयुगेविमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥२६॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 113

0
Adhyaya 113Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0