Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
अजितो द्रोणराधेयविकर्णकृतवर्मभिःतीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥१॥
स कथं कौरवेयेण समरेष्वनिवारितःनिगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥२॥
संजय उवाच
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरायथा च भूरिश्रवसो यत्र ते संशयो नृप ॥३॥
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतःबुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥४॥
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतःनहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥५॥
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतःयदोरभूदन्ववाये देवमीढ इति श्रुतः ॥६॥
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतःशूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥७॥
धनुष्यनवरः शूरः कार्तवीर्यसमो युधितद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥८॥
एतस्मिन्नेव काले तु देवकस्य महात्मनःदुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥९॥
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान्निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥१०॥
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभःनामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥११॥
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम्बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥१२॥
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितःअसिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥१३॥
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततःकृपया च पुनस्तेन जीवेति स विसर्जितः ॥१४॥
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिषप्रसादयन्महादेवममर्षवशमास्थितः ॥१५॥
तस्य तुष्टो महादेवो वराणां वरदः प्रभुःवरेण छन्दयामास स तु वव्रे वरं नृपः ॥१६॥
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम्मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥१७॥
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिवएवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥१८॥
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥१९॥
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसिन हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥२०॥
लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनःदेवदानवगन्धर्वान्विजेतारो ह्यविस्मिताःस्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥२१॥
न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभोभूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥२२॥
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताःन देवासुरगन्धर्वा न यक्षोरगराक्षसाःजेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥२३॥
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाःएतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि ॥२४॥
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनःसमर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥२५॥
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाःतेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥२६॥
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥२७॥
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभोकुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥२८॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 119

0
Adhyaya 119Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0