Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसिअमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥१॥
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं ममयत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥२॥
निहते सैन्धवे वीरे भूरिश्रवसि चैव हियदभ्यगान्महातेजाः पाञ्चालानपराजितः ॥३॥
किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापनेदुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥४॥
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतःके पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ॥५॥
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ॥६॥
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनःकथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥७॥
सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषुसंलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन् ॥८॥
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससिरथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥९॥
कथमेषां तदा तत्र पार्थानामपलायिनाम्प्रकाशमभवद्रात्रौ कथं कुरुषु संजय ॥१०॥
संजय उवाच
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणेद्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ॥११॥
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ॥१२॥
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाःतान्सर्वान्प्रेषयामास परलोकाय भारत ॥१३॥
प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम्अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान् ॥१४॥
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम्विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ॥१५॥
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैःसारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ॥१६॥
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनःअथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥१७॥
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणेपूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ॥१८॥
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिःविशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ॥१९॥
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरःरथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ॥२०॥
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसासर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥२१॥
तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाःते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥२२॥
ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतःध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ॥२३॥
तं निहत्य महाराज भीमसेनो महाबलःजयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥२४॥
जयरातमथाक्षिप्य नदन्सव्येन पाणिनातलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ॥२५॥
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥२६॥
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरःतामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना ॥२७॥
ततस्तव सुता राजन्भीमस्य रथमाव्रजन्महता शरवर्षेण छादयन्तो वृकोदरम् ॥२८॥
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगेसारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम्दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ॥२९॥
तावेकरथमारूढौ भ्रातरौ परतापनौसंग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम्यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥३०॥
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौरथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥३१॥
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य चकृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥३२॥
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्पादप्रहारेण धरां प्रावेशयदरिंदमः ॥३३॥
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौमुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च ॥३४॥
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन्रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ॥३५॥
एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाःविसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः ॥३६॥
ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरःमहाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली ॥३७॥
ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुःवृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः ॥३८॥
ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मनावृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन् ॥३९॥
ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम्निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम् ॥४०॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 130

0
Adhyaya 130Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0