Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम्अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ॥१॥
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सलत्रायस्व समरे कर्ण सर्वान्योधान्महाबल ॥२॥
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैःवृतान्समन्तात्संक्रुद्धैर्निःश्वसद्भिरिवोरगैः ॥३॥
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनःशक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ॥४॥
कर्ण उवाच
परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरःतमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ॥५॥
सत्यं ते प्रतिजानामि समाश्वसिहि भारतहन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ॥६॥
जयं ते प्रतिजानामि वासवस्येव पावकिःप्रियं तव मया कार्यमिति जीवामि पार्थिव ॥७॥
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरःतस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ॥८॥
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानदतव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥९॥
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ॥१०॥
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान्बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ॥११॥
संजय उवाच
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत्स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ॥१२॥
शोभनं शोभनं कर्ण सनाथः कुरुपुंगवःत्वया नाथेन राधेय वचसा यदि सिध्यति ॥१३॥
बहुशः कत्थसे कर्ण कौरव्यस्य समीपतःन तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा ॥१४॥
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधिसर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ॥१५॥
ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजेतदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः ॥१६॥
विराटनगरे चापि समेताः सर्वकौरवाःपार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ॥१७॥
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरेकथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ॥१८॥
अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतजअनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ॥१९॥
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम्निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ॥२०॥
तावद्गर्जसि राधेय यावत्पार्थं न पश्यसिपुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ॥२१॥
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसिपार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् ॥२२॥
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयःधनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ॥२३॥
एवं परुषितस्तेन तदा शारद्वतेन सःकर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ॥२४॥
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाःफलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव ॥२५॥
दोषमत्र न पश्यामि शूराणां रणमूर्धनितत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ॥२६॥
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यतिदैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ॥२७॥
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ॥२८॥
वृथा शूरा न गर्जन्ति सजला इव तोयदाःसामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ॥२९॥
सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौउत्सहे तरसा जेतुं ततो गर्जामि गौतम ॥३०॥
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगःहत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान्दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ॥३१॥
कृप उवाच
मनोरथप्रलापो मे न ग्राह्यस्तव सूतजयदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ॥३२॥
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौदेवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम्दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ॥३३॥
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकःनित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतःधृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ॥३४॥
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाःगुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ॥३५॥
संबन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणःधृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ॥३६॥
चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरःवसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः ॥३७॥
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्येषामर्थाय संयत्तो मत्स्यराजः सहानुगः ॥३८॥
शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजःबलानीको जयानीको जयाश्वो रथवाहनः ॥३९॥
चन्द्रोदयः कामरथो विराटभ्रातरः शुभाःयमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचःयेषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ॥४०॥
कामं खलु जगत्सर्वं सदेवासुरमानवम्सयक्षराक्षसगणं सभूतभुजगद्विपम्निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ॥४१॥
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषाअप्रमेयबलः शौरिर्येषामर्थे च दंशितःकथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ॥४२॥
महानपनयस्त्वेष तव नित्यं हि सूतजयस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ॥४३॥
संजय उवाच
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभअब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ॥४४॥
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचःएते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ॥४५॥
अजय्याश्च रणे पार्था देवैरपि सवासवैःसदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैःतथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ॥४६॥
ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विजएतया निहनिष्यामि सव्यसाचिनमाहवे ॥४७॥
हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराःअनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथंचन ॥४८॥
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागराअयत्नात्कौरवेयस्य वशे स्थास्यति गौतम ॥४९॥
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयःएतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ॥५०॥
त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगेकृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ॥५१॥
यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विजततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥५२॥
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगेभीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मतेअत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ॥५३॥
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयःदुःशासनो वृषसेनो मद्रराजस्त्वमेव चसोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ॥५४॥
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाःजयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः ॥५५॥
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवःधर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ॥५६॥
एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनःजयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ॥५७॥
दैवायत्तमहं मन्ये जयं सुबलिनामपियत्र भीष्मो महाबाहुः शेते शरशताचितः ॥५८॥
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथःभूरिश्रवा जयश्चैव जलसंधः सुदक्षिणः ॥५९॥
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्एते चान्ये च राजानो देवैरपि सुदुर्जयाः ॥६०॥
निहताः समरे शूराः पाण्डवैर्बलवत्तराःकिमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ॥६१॥
यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विजतेषामपि हताः शूराः शतशोऽथ सहस्रशः ॥६२॥
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सहप्रभावं नात्र पश्यामि पाण्डवानां कथंचन ॥६३॥
यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधमयतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगेदुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ॥६४॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 133

0
Adhyaya 133Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0