Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥१॥
अश्वत्थामोवाचकर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधमएष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥२॥
संजय उवाच
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम्न्यवारयन्महाराज कृपश्च द्विपदां वरः ॥३॥
कर्ण उवाच
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमःआसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥४॥
अश्वत्थामोवाचतवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मतेदर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥५॥
दुर्योधन उवाच
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानदकोपः खलु न कर्तव्यः सूतपुत्रे कथंचन ॥६॥
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबलेमहत्कार्यं समायत्तं प्रसीद द्विजसत्तम ॥७॥
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवःआयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥८॥
संजय उवाच
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिवपर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥९॥
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैःसंरब्धस्य महाराज सिंहनादविनादितम् ॥१०॥
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनःदृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥११॥
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणेयुध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥१२॥
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन्हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ॥१३॥
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवताअत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥१४॥
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितःहतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ॥१५॥
महता शरवर्षेण छादयन्तो महारथाःवधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥१६॥
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान्न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥१७॥
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम्पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः ॥१८॥
सायकौघेन बलवान्क्षिप्रकारी महाबलःवारयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥१९॥
ततस्तु शरवर्षेण पार्थिवास्तमवारयन्धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशःअयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥२०॥
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम्शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥२१॥
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम्यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥२२॥
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्यदेनं समरे यत्ता नाप्नुवन्त परे युधि ॥२३॥
निवार्य च शरौघांस्तान्पार्थिवानां महारथःयुगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु चआत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ॥२४॥
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताःबभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥२५॥
हयानां वध्यमानानां गजानां रथिनां तथातत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान् ॥२६॥
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततःआस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥२७॥
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशःबभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥२८॥
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ॥२९॥
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैःपश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम्कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥३०॥
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमताअभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥३१॥
तद्यथा पश्यमानानां सूतपुत्रं महारथम्न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् ॥३२॥
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथःप्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ॥३३॥
आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिवप्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ॥३४॥
धृतराष्ट्र उवाच
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम्कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥३५॥
स ह्यस्पर्धत पार्थेन नित्यमेव महारथःआशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥३६॥
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम्कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥३७॥
संजय उवाच
आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथाअसंभ्रान्ततरः कर्णः प्रत्युदीयाद्धनंजयम् ॥३८॥
तमापतन्तं वेगेन वैकर्तनमजिह्मगैःवारयामास तेजस्वी पाण्डवः शत्रुतापनः ॥३९॥
तं कर्णः शरजालेन छादयामास मारिषविव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः ॥४०॥
तस्य तल्लाघवं पार्थो नामृष्यत महाबलःतस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ॥४१॥
प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनःविव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ॥४२॥
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निवतस्य विद्धस्य वेगेन कराच्चापं पपात ह ॥४३॥
पुनरादाय तच्चापं निमेषार्धान्महाबलःछादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥४४॥
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारतव्यधमच्छरवर्षेण स्मयन्निव धनंजयः ॥४५॥
तौ परस्परमासाद्य शरवर्षेण पार्थिवछादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥४६॥
तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधेक्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ॥४७॥
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम्मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ॥४८॥
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम्सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥४९॥
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥५०॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभःआरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥५१॥
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभधनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥५२॥
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृपनिवर्तयामास तदा वाक्यं चेदमुवाच ह ॥५३॥
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाःएष पार्थवधायाहं स्वयं गच्छामि संयुगेअहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥५४॥
अद्य मे युध्यमानस्य सह गाण्डीवधन्वनाद्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥५५॥
अद्य मद्बाणजालानि विमुक्तानि सहस्रशःद्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥५६॥
अद्य बाणमयं वर्षं सृजतो मम धन्विनःजीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥५७॥
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिःतिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥५८॥
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यतियथा वेलां समासाद्य सागरो मकरालयः ॥५९॥
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतःफल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ॥६०॥
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदाअश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥६१॥
एष राजा महाबाहुरमर्षी क्रोधमूर्छितःपतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥६२॥
यावन्नः पश्यमानानां प्राणान्पार्थेन संगतःन जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥६३॥
यावत्फल्गुनबाणानां गोचरं नाधिगच्छतिकौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ॥६४॥
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैःन भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥६५॥
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानदस्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥६६॥
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिनायुध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥६७॥
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरःदुर्योधनमिदं वाक्यं त्वरितं समभाषत ॥६८॥
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसिमामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥६९॥
न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रतिअहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥७०॥
दुर्योधन उवाच
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षतित्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥७१॥
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधिधर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ॥७२॥
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाःसुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥७३॥
को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधिशत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥७४॥
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान्तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ॥७५॥
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान्वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥७६॥
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनःमम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ॥७७॥
तान्वारय महाबाहो केकयांश्च नरोत्तमपुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥७८॥
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिषत्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ॥७९॥
करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युतएवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ॥८०॥
न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाःकिमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ॥८१॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 134

0
Adhyaya 134Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0