Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजयत्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् ॥१॥
आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाःकुरूणां पाण्डवानां च युद्धं देवासुरोपमम् ॥२॥
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम्तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे ॥३॥
संजय उवाच
सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम्समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् ॥४॥
तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम्जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥५॥
सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम्एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः ॥६॥
वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान्शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः ॥७॥
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम्ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ॥८॥
ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशःसिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः ॥९॥
पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम्पाण्डवानां कुरूणां च साधु साध्विति निस्वनः ॥१०॥
न हि मद्राधिपादन्यः सर्वराजसु भारतसोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥११॥
तथा मद्राधिपस्यापि गदावेगं महात्मनःसोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् ॥१२॥
पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणीप्रजज्वाल तथाविद्धा भीमेन महती गदा ॥१३॥
तथैव चरतो मार्गान्मण्डलानि च भागशःमहाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा ॥१४॥
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुःआवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ॥१५॥
मण्डलावर्तमार्गेषु गदाविहरणेषु चनिर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥१६॥
ताडिता भीमसेनेन शल्यस्य महती गदासाग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत ॥१७॥
तथैव भीमसेनस्य द्विषताभिहता गदावर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ ॥१८॥
गदा क्षिप्ता तु समरे मद्रराजेन भारतव्योम संदीपयाना सा ससृजे पावकं बहु ॥१९॥
तथैव भीमसेनेन द्विषते प्रेषिता गदातापयामास तत्सैन्यं महोल्का पतती यथा ॥२०॥
ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम्श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् ॥२१॥
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौतौ विचेरतुरासाद्य गदाभ्यां च परस्परम् ॥२२॥
ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥२३॥
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोःगदाभिघातसंह्रादः शक्राशनिरवोपमः ॥२४॥
गदया मद्रराजेन सव्यदक्षिणमाहतःनाकम्पत तदा भीमो भिद्यमान इवाचलः ॥२५॥
तथा भीमगदावेगैस्ताड्यमानो महाबलःधैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ॥२६॥
आपेततुर्महावेगौ समुच्छ्रितमहागदौपुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥२७॥
अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविवसहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ॥२८॥
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौयुगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ॥२९॥
ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनःशल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ॥३०॥
दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम्विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् ॥३१॥
ततः सगदमारोप्य मद्राणामधिपं रथम्अपोवाह रणात्तूर्णं कृतवर्मा महारथः ॥३२॥
क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितःभीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ॥३३॥
ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम्सनागरथपत्त्यश्वाः समकम्पन्त मारिष ॥३४॥
ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिःभीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ॥३५॥
निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाःव्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः ॥३६॥
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताःभेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह ॥३७॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 14

0
Adhyaya 14Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0