Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम्पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥१॥
वासुदेवस्तु हर्षेण महताभिपरिप्लुतःननाद सिंहवन्नादं व्यथयन्निव भारतविनद्य च महानादं पर्यष्वजत फल्गुनम् ॥२॥
स विनद्य महानादमभीशून्संनियम्य चननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥३॥
ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत्रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ॥४॥
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम्अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ॥५॥
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदनशोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ॥६॥
विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम्वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ॥७॥
नैतत्कारणमल्पं हि भविष्यति जनार्दनतदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥८॥
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदमधैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ॥९॥
समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम्तथैतल्लाघवं मन्ये तव कर्म जनार्दन ॥१०॥
वासुदेव उवाच
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजयअतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥११॥
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युतेकर्णं निहतमेवाजौ विद्धि सद्यो धनंजय ॥१२॥
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिहय एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ॥१३॥
दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलःदिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥१४॥
यदि हि स्यात्सकवचस्तथैव च सकुण्डलःसामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥१५॥
वासवो वा कुबेरो वा वरुणो वा जलेश्वरःयमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥१६॥
गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम्न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥१७॥
त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलःविहीनकवचश्चायं कृतः परपुरंजयः ॥१८॥
उत्कृत्य कवचं यस्मात्कुण्डले विमले च तेप्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥१९॥
आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसातथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥२०॥
यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मनावासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ॥२१॥
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन चतां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥२२॥
एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित्ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ॥२३॥
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतःरिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥२४॥
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनःकेसरीव वने मर्दन्मत्तमातङ्गयूथपान्विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ॥२५॥
मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम्त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिःशरजालसहस्रांशुः शरदीव दिवाकरः ॥२६॥
तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौदिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥२७॥
एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु संज्ञां विचार्य ॥२८॥
जरासंधश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादःएकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥२९॥
अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाःअलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी ॥३०॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 155

0
Adhyaya 155Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0