Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
एकवीरवधे मोघा शक्तिः सूतात्मजे यदाकस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥१॥
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाःएकवीरवधे कस्मान्न युद्धे जयमादधत् ॥२॥
आहूतो न निवर्तेयमिति तस्य महाव्रतम्स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ॥३॥
ततो द्वैरथमानीय फल्गुनं शक्रदत्तयान जघान वृषा कस्मात्तन्ममाचक्ष्व संजय ॥४॥
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतःशत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ॥५॥
या ह्यस्य परमा शक्तिर्जयस्य च परायणम्सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ॥६॥
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसातथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥७॥
यथा वराहस्य शुनश्च युध्यतो;स्तयोरभावे श्वपचस्य लाभःमन्ये विद्वन्वासुदेवस्य तद्व;द्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥८॥
घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम्वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥९॥
इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धेअयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च ॥१०॥
संजय उवाच
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृपनियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥११॥
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनःअमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥१२॥
तदैव कृतकार्या हि वयं स्याम कुरूद्वहन रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥१३॥
साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुविविना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥१४॥
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिवजयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥१५॥
सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥१६॥
धृतराष्ट्र उवाच
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजःयस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥१७॥
तवापि समतिक्रान्तमेतद्गावल्गणे कथम्एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥१८॥
संजय उवाच
दुर्योधनस्य शकुनेर्मम दुःशासनस्य चरात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ॥१९॥
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम्प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥२०॥
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततःस्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ॥२१॥
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतःशाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः ॥२२॥
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाःकृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥२३॥
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतजकृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥२४॥
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ॥२५॥
यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्माननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत ॥२६॥
सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरेअप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ॥२७॥
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवःन ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥२८॥
अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतःअमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥२९॥
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमःपप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ॥३०॥
अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रमकिमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥३१॥
वासुदेव उवाच
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवःसततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ॥३२॥
कर्ण कर्ण महेष्वास रणेऽमितपराक्रमनान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥३३॥
ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात्स हि तेषामतियशा देवानामिव वासवः ॥३४॥
तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सहभविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥३५॥
तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगवहृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ॥३६॥
अहमेव तु राधेयं मोहयामि युधां वरयतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ॥३७॥
फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतःन निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ॥३८॥
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगवमृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम् ॥३९॥
न पिता न च मे माता न यूयं भ्रातरस्तथान च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥४०॥
त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम्नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम् ॥४१॥
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत्मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम् ॥४२॥
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसःन ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥४३॥
संजय उवाच
इति सात्यकये प्राह तदा देवकिनन्दनःधनंजयहिते युक्तस्तत्प्रिये सततं रतः ॥४४॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 157

0
Adhyaya 157Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0