Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसितच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ॥१॥
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम्भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ॥२॥
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदनत्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ॥३॥
इन्द्रादनवरः संख्ये गजयानविशारदःप्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः ॥४॥
स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधिसर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः ॥५॥
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघस पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ॥६॥
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥७॥
शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम्अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥८॥
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनःदार्यते भगदत्तेन यत्र पाण्डववाहिनी ॥९॥
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाःसंशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥१०॥
दशैव तु सहस्राणि त्रिगर्तानां नराधिपचत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ॥११॥
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिषआहूयमानस्य च तैरभवद्धृदयं द्विधा ॥१२॥
किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन्इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥१३॥
तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वहअभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥१४॥
स संनिवृत्तः सहसा कपिप्रवरकेतनःएको रथसहस्राणि निहन्तुं वासवी रणे ॥१५॥
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोःअर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ॥१६॥
स तु संवर्तयामास द्वैधीभावेन पाण्डवःरथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ॥१७॥
ततः शतसहस्राणि शराणां नतपर्वणाम्व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ॥१८॥
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनःन हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥१९॥
यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनःततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ॥२०॥
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाःकेतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥२१॥
द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताःहतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥२२॥
विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवःसारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥२३॥
सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाःसंछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥२४॥
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिषसंछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ॥२५॥
जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैःनानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ॥२६॥
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिवधनंजयं भूतगणाः साधु साध्वित्यपूजयन् ॥२७॥
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवःविस्मयं परमं गत्वा तलमाहत्य पूजयत् ॥२८॥
ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताःभगदत्ताय याहीति पार्थः कृष्णमचोदयत् ॥२९॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 26

0
Adhyaya 26Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0