Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
शरतल्पे महात्मानं शयानममितौजसम्महावातसमूहेन समुद्रमिव शोषितम् ॥१॥
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिनाजयाशां तव पुत्राणां संभग्नां शर्म वर्म च ॥२॥
अपाराणामिव द्वीपमगाधे गाधमिच्छताम्स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ॥३॥
महान्तमिव मैनाकमसह्यं भुवि पातितम्नभश्च्युतमिवादित्यं पतितं धरणीतले ॥४॥
शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम्मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ॥५॥
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्धनंजयशरव्याप्तं पितरं ते महाव्रतम् ॥६॥
तं वीरशयने वीरं शयानं पुरुषर्षभम्भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ॥७॥
अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम्अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥८॥
कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारतपुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥९॥
न नूनं सुकृतस्येह फलं कश्चित्समश्नुतेयत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥१०॥
कोशसंजनने मन्त्रे व्यूहप्रहरणेषु चनाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ॥११॥
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ॥१२॥
अद्य प्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम्पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥१३॥
अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनःकुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः ॥१४॥
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनःत्रासयिष्यति संग्रामे कुरूनन्यांश्च पार्थिवान् ॥१५॥
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत्धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ॥१६॥
येन येन प्रसरतो वाय्वग्नी सहितौ वनेतेन तेन प्रदहतो भगवन्तौ यदिच्छतः ॥१७॥
यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयःयथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ॥१८॥
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य चश्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ॥१९॥
कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनःशब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥२०॥
को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हतियस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ॥२१॥
अमानुषश्च संग्रामस्त्र्यम्बकेन च धीमतःतस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥२२॥
तमद्याहं पाण्डवं युद्धशौण्ड;ममृष्यमाणो भवतानुशिष्टःआशीविषं दृष्टिहरं सुघोर;मियां पुरस्कृत्य वधं जयं वा ॥२३॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 3

0
Adhyaya 3Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0