Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षयेआदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते ॥१॥
व्यपयातेषु सैन्येषु वासाय भरतर्षभहत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥२॥
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम्गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ॥३॥
किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशवस्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ॥४॥
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पतिभुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ॥५॥
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनःअपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥६॥
वासुदेव उवाच
व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यतिमा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति ॥७॥
संजय उवाच
ततः संध्यामुपास्यैव वीरौ वीरावसादनेकथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥८॥
ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम्वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥९॥
ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहाबीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥१०॥
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दनमिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सहवीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ॥११॥
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति चस्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ॥१२॥
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाःकर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ॥१३॥
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधवन हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ॥१४॥
अपि पाञ्चालराजस्य विराटस्य च मानदसर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ॥१५॥
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सहरणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥१६॥
एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥१७॥
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजःअपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥१८॥
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यतेन चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥१९॥
मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितःन च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ॥२०॥
न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमःकच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥२१॥
भित्त्वानीकं महेष्वासः परेषां बहुशो युधिकच्चिन्न निहतः शेते सौभद्रः परवीरहा ॥२२॥
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषुउपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥२३॥
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम्सदा मम प्रियं ब्रूत कथमायोधने हतः ॥२४॥
वार्ष्णेयीदयितं शूरं मया सततलालितम्अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः ॥२५॥
सदृशो वृष्णिसिंहस्य केशवस्य महात्मनःविक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥२६॥
सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य चयदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥२७॥
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम्मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ॥२८॥
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदाबाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ॥२९॥
महोत्साहं महाबाहुं दीर्घराजीवलोचनम्भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥३०॥
कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनम्युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ॥३१॥
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम्न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम्यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥३२॥
सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम्अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥३३॥
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम्अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥३४॥
रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम्अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ॥३५॥
अभिवादनदक्षं तं पितॄणां वचने रतम्नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ॥३६॥
सुकुमारः सदा वीरो महार्हशयनोचितःभूमावनाथवच्छेते नूनं नाथवतां वरः ॥३७॥
शयानं समुपासन्ति यं पुरा परमस्त्रियःतमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥३८॥
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिःबोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ॥३९॥
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ॥४०॥
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शनेभाग्यहीनस्य कालेन यथा मे नीयसे बलात् ॥४१॥
साद्य संयमनी नूनं सदा सुकृतिनां गतिःस्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ॥४२॥
नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिःशतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥४३॥
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथादुःखेन महताविष्टो युधिष्ठिरमपृच्छत ॥४४॥
कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दनस्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः ॥४५॥
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैःअसहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥४६॥
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम्इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः ॥४७॥
अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य चसुभद्रायां च संभूतो नैवं वक्तुमिहार्हति ॥४८॥
वज्रसारमयं नूनं हृदयं सुदृढं ममअपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥४९॥
कथं बाले महेष्वासे नृशंसा मर्मभेदिनःस्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥५०॥
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दतिउपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ॥५१॥
नूनं स पतितः शेते धरण्यां रुधिरोक्षितःशोभयन्मेदिनीं गात्रैरादित्य इव पातितः ॥५२॥
रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यतिसुभद्रा वक्ष्यते किं मामभिमन्युमपश्यतीद्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ॥५३॥
वज्रसारमयं नूनं हृदयं यन्न यास्यतिसहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥५४॥
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतःयुयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥५५॥
अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाःकिं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ॥५६॥
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधेसिंहवन्नदत प्रीताः शोककाल उपस्थिते ॥५७॥
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणःअधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ॥५८॥
इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिःअपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥५९॥
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे ममअधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ॥६०॥
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥६१॥
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥६२॥
एषा वै युध्यमानानां शूराणामनिवर्तिनाम्विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ॥६३॥
ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम्गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥६४॥
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभसंग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद ॥६५॥
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान्वीरैराकाङ्क्षितं मृत्युं संप्राप्तोऽभिमुखो रणे ॥६६॥
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनःधर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥६७॥
इमे ते भ्रातरः सर्वे दीना भरतसत्तमत्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥६८॥
एतांस्त्वं वचसा साम्ना समाश्वासय मानदविदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥६९॥
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणाततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ॥७०॥
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनःअभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥७१॥
सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मयासंग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ॥७२॥
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥७३॥
यद्येवमहमज्ञास्यमशक्तान्रक्षणे ममपुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ॥७४॥
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम्नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥७५॥
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमःयत्राभिमन्युः समरे पश्यतां वो निपातितः ॥७६॥
आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान्युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् ॥७७॥
आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वःवाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥७८॥
एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान्न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥७९॥
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुःपुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा ॥८०॥
नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम्अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् ॥८१॥
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौबहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥८२॥
ततस्तं पुत्रशोकेन भृशं पीडितमानसम्राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ॥८३॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 50

0
Adhyaya 50Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0