महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · द्रोण पर्व
॥ श्रीः ॥
अध्याय 51
महाभारत · द्रोण पर्व
युधिष्ठिर उवाच
त्वयि याते महाबाहो संशप्तकबलं प्रतिप्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥१॥
व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशःप्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥२॥
स वार्यमाणो रथिभी रक्षितेन मया तथाअस्मानपि जघानाशु पीडयन्निशितैः शरैः ॥३॥
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमःप्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥४॥
वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ॥५॥
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान्असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥६॥
स तवास्त्रोपदेशेन वीर्येण च समन्वितःप्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥७॥
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवेप्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥८॥
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथःवरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥९॥
ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलःकृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥१०॥
परिवार्य तु तैः सर्वैर्युधि बालो महारथैःयतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥११॥
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥१२॥
स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम्राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥१३॥
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य हततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ॥१४॥
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥१५॥
संजय उवाच
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥१६॥
विषण्णवदनाः सर्वे परिगृह्य धनंजयम्नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ॥१७॥
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितःकम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥१८॥
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान्उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥१९॥
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥२०॥
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥२१॥
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥२२॥
रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचनअपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ॥२३॥
यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाःमा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥२४॥
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्गुरुदारगामिनां ये च पिशुनानां च ये तथा ॥२५॥
साधूनसूयतां ये च ये चापि परिवादिनाम्ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ॥२६॥
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥२७॥
पायसं वा यवान्नं वा शाकं कृसरमेव वासंयावापूपमांसानि ये च लोका वृथाश्नताम्तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥२८॥
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ॥२९॥
स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत्याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिःतां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥३०॥
नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिःउत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिःआत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ॥३१॥
भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथाअसंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम्तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥३२॥
संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम्न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ॥३३॥
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति चअनर्हते च यो दद्याद्वृषलीपत्युरेव च ॥३४॥
मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकःतेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ॥३५॥
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताःये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम्यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ॥३६॥
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधतयद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यतिइहैव संप्रवेष्टाहं ज्वलितं जातवेदसम् ॥३७॥
असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वाचरमचरमपीदं यत्परं चापि तस्मा;त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥३८॥
यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वातदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता ॥३९॥
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥४०॥
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनःप्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः ॥४१॥
स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिःजगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा ॥४२॥
ततो वादित्रघोषाश्च प्रादुरासन्समन्ततःसिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥४३॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0