Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताःअभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥१॥
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनःकथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥२॥
पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥३॥
कपिराजध्वजं संख्ये विधुन्वानं महद्धनुःदृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ॥४॥
किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रतिपरिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ॥५॥
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाःन श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ॥६॥
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे ममसूतमागधसंघानां नर्तकानां च सर्वशः ॥७॥
शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिःदीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥८॥
निवेशने सत्यधृतेः सोमदत्तस्य संजयआसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥९॥
तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम्निवेशनं हतोत्साहं पुत्राणां मम लक्षये ॥१०॥
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोःअन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥११॥
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासतेद्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥१२॥
वितण्डालापसंलापैर्हुतयाचितवन्दितैःगीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥१३॥
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैःसूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा ॥१४॥
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च येअत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥१५॥
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिःश्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥१६॥
नित्यप्रमुदितानां च तालगीतस्वनो महान्नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ॥१७॥
सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाःसौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥१८॥
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिःद्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ॥१९॥
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनःवादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥२०॥
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनःआगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥२१॥
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदावासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥२२॥
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाःशमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ॥२३॥
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥२४॥
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोःअन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥२५॥
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसतिसैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ॥२६॥
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथाअश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय ॥२७॥
एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकःसज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥२८॥
श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाःकुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥२९॥
धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम्प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥३०॥
अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाःतेषामपि समुद्रान्ता पितृपैतामही मही ॥३१॥
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनिसन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ॥३२॥
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनःद्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥३३॥
अन्येषां चैव वृद्धानां भरतानां महात्मनाम्त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ॥३४॥
कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथाकृष्णो न धर्मं संजह्यात्सर्वे ते च त्वदन्वयाः ॥३५॥
मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम्नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥३६॥
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान्न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥३७॥
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिःउत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥३८॥
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितःअश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥३९॥
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुःद्रौपदेया विराटश्च द्रुपदश्च महारथःयमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥४०॥
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुःदिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ॥४१॥
अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात्दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥४२॥
येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितःसंनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥४३॥
तेषां मम विलापानां न हि दुर्योधनः स्मरेत्हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ॥४४॥
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम्दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥४५॥
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्अग्निर्दहेत्तथा सेनां मामिकां स धनंजयः ॥४६॥
आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि संजययदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम्अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥४७॥
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनःअपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ॥४८॥
किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्दुःशासनः सौबलश्च तेषामेवं गते अपिसर्वेषां समवेतानां पुत्राणां मम संजय ॥४९॥
यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम्लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ॥५०॥
राज्यकामस्य मूढस्य रागोपहतचेतसःदुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय ॥५१॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 61

0
Adhyaya 61Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0