Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
राजन्संग्राममाश्चर्यं शृणु कीर्तयतो ममकुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥१॥
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥२॥
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाःअयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ॥३॥
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैःआजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ ॥४॥
विराटश्च महाराज तावुभौ समरे स्थितौपराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥५॥
तेषां युद्धं समभवद्दारुणं शोणितोदकम्सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥६॥
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलःआजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥७॥
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैःआजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥८॥
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम्भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥९॥
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथाअभवत्संवृतं सर्वं न प्राज्ञायत किंचन ॥१०॥
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम्ससैन्यो योधयामास गजः प्रतिगजं यथा ॥११॥
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान्मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥१२॥
अयोधयंस्ते च भृशं तं शरौघैः समन्ततःइन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ॥१३॥
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तवआजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥१४॥
सोऽतिविद्धो बलवता महेष्वासेन धन्विनाईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ॥१५॥
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥१६॥
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौरेजतुः समरे राजन्पुष्पिताविव किंशुकौ ॥१७॥
अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितःअशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥१८॥
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैःअनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥१९॥
ततस्तौ समरे शूरौ योधयन्तौ परस्परम्ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ॥२०॥
शकुनिं रभसं युद्धे कृतवैरं च भारतमाद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ॥२१॥
तन्मूलः स महाराज प्रावर्तत जनक्षयःत्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः ॥२२॥
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनःय इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥२३॥
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैःनाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् ॥२४॥
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥२५॥
स वध्यमानो बहुभिः शरैः संनतपर्वभिःसंप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥२६॥
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम्अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥२७॥
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ॥२८॥
ततो युधिष्ठिरो राजा मद्रराजानमाहवेविद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥२९॥
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृपयथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥३०॥
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजःअयोधयन्भीमसेनं महत्या सेनया वृताः ॥३१॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 71

0
Adhyaya 71Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0