Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
प्रयाते तव सैन्यं तु युयुधाने युयुत्सयाधर्मराजो महाराज स्वेनानीकेन संवृतःप्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ॥१॥
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदःप्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ॥२॥
आगच्छत प्रहरत द्रुतं विपरिधावतयथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ॥३॥
महारथा हि बहवो यतिष्यन्त्यस्य निर्जयेइति ब्रुवन्तो वेगेन समापेतुर्बलं तव ॥४॥
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताःततः शब्दो महानासीद्युयुधानरथं प्रति ॥५॥
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनीसात्वतेन महाराज शतधाभिव्यदीर्यत ॥६॥
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथःसप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ॥७॥
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुनाआयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ॥८॥
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिषचक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ॥९॥
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैःबाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ॥१०॥
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैःऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ॥११॥
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैःपतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥१२॥
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैःरराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥१३॥
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैःउरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाःगतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥१४॥
नानाविधानि सैन्यानि तव हत्वा तु सात्वतःप्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥१५॥
ततस्तेनैव मार्गेण येन यातो धनंजयःइयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥१६॥
भरद्वाजं समासाद्य युयुधानस्तु मारिषनाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः ॥१७॥
निवार्य तु रणे द्रोणो युयुधानं महारथम्विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥१८॥
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिःहेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥१९॥
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्स तं न ममृषे द्रोणं युयुधानो महारथः ॥२०॥
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिःदशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥२१॥
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैःएकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥२२॥
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैःत्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥२३॥
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैःप्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह ॥२४॥
तवाचार्यो रणं हित्वा गतः कापुरुषो यथायुध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ॥२५॥
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधवयदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥२६॥
सात्यकिरुवाचधनंजयस्य पदवीं धर्मराजस्य शासनात्गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥२७॥
संजय उवाच
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन्प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥२८॥
द्रोणः करिष्यते यत्नं सर्वथा मम वारणेयत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥२९॥
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् ॥३०॥
तदनन्तरमेतच्च बाह्लिकानां बलं महत्बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ॥३१॥
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथेअन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥३२॥
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत्मध्यमं जवमास्थाय वह मामत्र सारथे ॥३३॥
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताःदाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥३४॥
हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यतेनानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥३५॥
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन्स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ॥३६॥
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून्युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ॥३७॥
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैःप्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ॥३८॥
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु चअमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥३९॥
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिःचतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥४०॥
ततः पुनः षोडशभिर्नतपर्वभिराशुगैःसात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥४१॥
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैःसात्वतेन महाराज कृतवर्मा न चक्षमे ॥४२॥
स वत्सदन्तं संधाय जिह्मगानलसंनिभम्आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ॥४३॥
स तस्य देहावरणं भित्त्वा देहं च सायकःसपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ॥४४॥
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित्समार्गणगुणं राजन्कृतवर्मा शरासनम् ॥४५॥
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम्दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥४६॥
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरःअभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ॥४७॥
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिःव्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥४८॥
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत्छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ॥४९॥
अथास्य भल्लेन शिरः सारथेः समकृन्ततस पपात हतः सूतो हार्दिक्यस्य महारथात्ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ॥५०॥
अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम्तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥५१॥
स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत्व्यपेतभीरमित्राणामावहत्सुमहद्भयम्सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ॥५२॥
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतःप्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ॥५३॥
स तत्र बहुभिः शूरैः संनिरुद्धो महारथैःन चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥५४॥
संधाय च चमूं द्रोणो भोजे भारं निवेश्य चअन्वधावद्रणे यत्तो युयुधानं युयुत्सया ॥५५॥
तथा तमनुधावन्तं युयुधानस्य पृष्ठतःन्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ॥५६॥
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम्पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाःविक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥५७॥
यतमानांस्तु तान्सर्वानीषद्विगतचेतसःअभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ॥५८॥
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणेअतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ॥५९॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 88

0
Adhyaya 88Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0