Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितःरथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥१॥
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥२॥
मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिनाभगदत्तादनवरः शिक्षया च बलेन च ॥३॥
एनं हत्वा निहन्तासि पुनः संशप्तकानितिवाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति ॥४॥
स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहःसपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः ॥५॥
सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम्रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि ॥६॥
रथानधिष्ठाय सवाजिसारथी;न्रथांश्च पद्भिस्त्वरितो व्यपोथयत्द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् ॥७॥
नरांश्च कार्ष्णायसवर्मभूषणा;न्निपात्य साश्वानपि पत्तिभिः सहव्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा ॥८॥
अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादितेनराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥९॥
ततोऽर्जुनं द्वादशभिः शरोत्तमै;र्जनार्दनं षोडशभिः समार्दयत्स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि;स्ततो ननाद प्रजहास चासकृत् ॥१०॥
ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलंकृतम्पुनर्नियन्तॄन्सह पादगोप्तृभि;स्ततस्तु चुक्रोध गिरिव्रजेश्वरः ॥११॥
ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसाअतीव चुक्षोभयिषुर्जनार्दनं; धनंजयं चाभिजघान तोमरैः ॥१२॥
अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिःक्षुरैः प्रचिच्छेद सहैव पाण्डव;स्ततो द्विपं बाणशतैः समार्दयत् ॥१३॥
स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपःतथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः ॥१४॥
स वेदनार्तोऽम्बुदनिस्वनो नदं;श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन्पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः ॥१५॥
हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिनाहते रणे भ्रातरि दण्ड आव्रज;ज्जिघांसुरिन्द्रावरजं धनंजयम् ॥१६॥
स तोमरैरर्ककरप्रभैस्त्रिभि;र्जनार्दनं पञ्चभिरेव चार्जुनम्समर्पयित्वा विननाद चार्दयं;स्ततोऽस्य बाहू विचकर्त पाण्डवः ॥१७॥
क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौगजात्पतन्तौ युगपद्विरेजतु;र्यथाद्रिशृङ्गात्पतितौ महोरगौ ॥१८॥
अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात्तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥१९॥
अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैःबिभेद पार्थः स पपात नानद;न्हिमाद्रिकूटः कुलिशाहतो यथा ॥२०॥
ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम्तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥२१॥
गजा रथाश्वाः पुरुषाश्च संघशः; परस्परघ्नाः परिपेतुराहवेपरस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः ॥२२॥
अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन्अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः ॥२३॥
न चेत्परित्रास्य इमाञ्जनान्भया;द्द्विषद्भिरेवं बलिभिः प्रपीडितान्तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया ॥२४॥
इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनःयथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसंघहा पुनः ॥२५॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 13

0
Adhyaya 13Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0