Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम्उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥१॥
युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणाउलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ॥२॥
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगेक्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥३॥
तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम्अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥४॥
शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभसारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ॥५॥
उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैःअथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥६॥
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजःपपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ॥७॥
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितःउलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥८॥
उलूकस्तस्य भल्लेन तैलधौतेन मारिषशिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ॥९॥
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिःसोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥१०॥
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौपाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥११॥
शतानीकं महाराज श्रुतकर्मा सुतस्तवव्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम् ॥१२॥
हताश्वे तु रथे तिष्ठञ्शतानीको महाबलःगदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष ॥१३॥
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन्पपात धरणीं तूर्णं दारयन्तीव भारत ॥१४॥
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौअपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ॥१५॥
पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत्शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥१६॥
सुतसोमस्तु शकुनिं विव्याध निशितैः शरैःनाकम्पयत संरब्धो वार्योघ इव पर्वतम् ॥१७॥
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्शरैरनेकसाहस्रैश्छादयामास भारत ॥१८॥
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिःलघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥१९॥
निवार्य समरे चापि शरांस्तान्निशितैः शरैःआजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः ॥२०॥
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैःस्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ॥२१॥
हताश्वो विरथश्चैव छिन्नधन्वा च मारिषधन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठतव्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ॥२२॥
छादयामासुरथ ते तव स्यालस्य तं रथम्पतंगानामिव व्राताः शरव्राता महारथम् ॥२३॥
रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलःप्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ॥२४॥
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताःसुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम्रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ॥२५॥
तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिःव्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ॥२६॥
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन्वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ॥२७॥
भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम्कालोपमं ततो मेने सुतसोमस्य धीमतः ॥२८॥
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशःचतुर्विंशन्महाराज शिक्षाबलसमन्वितः ॥२९॥
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्तानापतत एवाशु चिच्छेद परमासिना ॥३०॥
ततः क्रुद्धो महाराज सौबलः परवीरहाप्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ॥३१॥
चिच्छेद तांश्च खड्गेन शिक्षया च बलेन चदर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ॥३२॥
तस्य संचरतो राजन्मण्डलावर्तने तदाक्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥३३॥
स च्छिन्नः सहसा भूमौ निपपात महानसिःअवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ॥३४॥
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्प्राविध्यत ततः शेषं सुतसोमो महारथः ॥३५॥
स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनःपपात धरणीं तूर्णं स्वर्णवज्रविभूषितःसुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ॥३६॥
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम्अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ॥३७॥
तत्र नादो महानासीत्पाण्डवानां विशां पतेसौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ॥३८॥
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति चद्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥३९॥
यथा दैत्यचमूं राजन्देवराजो ममर्द हतथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥४०॥
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगेयथा दृप्तं वने नागं शरभो वारयेद्युधि ॥४१॥
निरुद्धः पार्षतस्तेन गौतमेन बलीयसापदात्पदं विचलितुं नाशक्नोत्तत्र भारत ॥४२॥
गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रतिवित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥४३॥
तत्रावोचन्विमनसो रथिनः सादिनस्तथाद्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः ॥४४॥
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीःअपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥४५॥
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात्अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥४६॥
यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम्गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ॥४७॥
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधिअस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः ॥४८॥
पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यतेइत्येवं विविधा वाचस्तावकानां परैः सह ॥४९॥
विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृपपार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ॥५०॥
स वध्यमानः समरे गौतमेन महात्मनाकर्तव्यं न प्रजानाति मोहितः परमाहवे ॥५१॥
तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षतईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ॥५२॥
दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनःप्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ॥५३॥
व्यावर्तये तत्र रथं नदीवेगमिवार्णवात्अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥५४॥
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचःमुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ॥५५॥
वेपथुं च शरीरे मे रोमहर्षं च पश्य वैवर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ॥५६॥
अर्जुनं भीमसेनं वा समरे प्राप्य सारथेक्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ॥५७॥
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान्यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥५८॥
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिषकिरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥५९॥
शङ्खं च पूरयामास मुहुर्मुहुररिंदमःपार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ॥६०॥
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम्हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥६१॥
शिखण्डी च समासाद्य हृदिकानां महारथम्पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ॥६२॥
कृतवर्मा तु संक्रुद्धो भित्त्वा षष्टिभिराशुगैःधनुरेकेन चिच्छेद हसन्राजन्महारथः ॥६३॥
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बलीतिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत ॥६४॥
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान्प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥६५॥
वितथांस्तान्समालक्ष्य पतितांश्च महीतलेक्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ॥६६॥
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ॥६७॥
कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतःधनुरन्यत्समादाय समार्गणगणं प्रभोशिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ॥६८॥
स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज हशाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ॥६९॥
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौअन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥७०॥
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौरथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥७१॥
कृतवर्मा महाराज पार्षतं निशितैः शरैःरणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥७२॥
ततोऽस्य समरे बाणं भोजः प्रहरतां वरःजीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ॥७३॥
स तेनाभिहतो राजन्मूर्छामाशु समाविशत्ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥७४॥
अपोवाह रणात्तं तु सारथी रथिनां वरम्हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः ॥७५॥
पराजिते ततः शूरे द्रुपदस्य सुते प्रभोप्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ॥७६॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 18

0
Adhyaya 18Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0