Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
धृतराष्ट्र उवाच
अतितीव्राणि दुःखानि दुःसहानि बहूनि चतवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् ॥१॥
तथा तु मे कथयसे यथा युद्धं तु वर्ततेन सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥२॥
दुर्योधनस्तु विरथः कृतस्तत्र महारणेधर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ॥३॥
अपराह्णे कथं युद्धमभवल्लोमहर्षणम्तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥४॥
संजय उवाच
संसक्तेषु च सैन्येषु युध्यमानेषु भागशःरथमन्यं समास्थाय पुत्रस्तव विशां पते ॥५॥
क्रोधेन महताविष्टः सविषो भुजगो यथादुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम्उवाच सूत त्वरितं याहि याहीति भारत ॥६॥
अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवःध्रियमाणेन छत्रेण राजा राजति दंशितः ॥७॥
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम्युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥८॥
ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवःसारथिं चोदयामास याहि यत्र सुयोधनः ॥९॥
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौसमेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥१०॥
ततो दुर्योधनो राजा धर्मशीलस्य मारिषशिलाशितेन भल्लेन धनुश्चिच्छेद संयुगेतं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः ॥११॥
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनःअन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ॥१२॥
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव चअथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ॥१३॥
तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम्सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया ॥१४॥
अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविवअन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ॥१५॥
ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौविरेजतुर्महाराज पुष्पिताविव किंशुकौ ॥१६॥
ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुःतलयोश्च तथा शब्दान्धनुषोश्च महाहवे ॥१७॥
शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौअन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ॥१८॥
ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैःआजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ॥१९॥
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम्पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥२०॥
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारतसर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥२१॥
तामापतन्तीं सहसा धर्मराजः शिलाशितैःत्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ॥२२॥
निपपात ततः साथ हेमदण्डा महाघनानिपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ॥२३॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पतेनवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥२४॥
सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनःदुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥२५॥
समाधत्त च तं बाणं धनुष्युग्रं महाबलःचिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ॥२६॥
स तु बाणः समासाद्य तव पुत्रं महारथम्व्यमोहयत राजानं धरणीं च जगाम ह ॥२७॥
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितःविधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ॥२८॥
तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम्धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवेदीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥२९॥
रथस्थः स तया विद्धो वर्म भित्त्वा महाहवेभृशं संविग्नहृदयः पपात च मुमोह च ॥३०॥
ततस्त्वरितमागत्य कृतवर्मा तवात्मजम्प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ॥३१॥
भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम्अभिदुद्राव वेगेन कृतवर्माणमाहवेएवं तदभवद्युद्धं त्वदीयानां परैः सह ॥३२॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 20

0
Adhyaya 20Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0