Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
पुत्रस्तव महाराज मद्रराजमिदं वचःविनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत् ॥१॥
सत्यव्रत महाभाग द्विषतामघवर्धनमद्रेश्वर रणे शूर परसैन्यभयंकर ॥२॥
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वरयथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् ॥३॥
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हिसारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि ॥४॥
अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समःस पातु सर्वतः कर्णं भवान्ब्रह्मेव शंकरम् ॥५॥
पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरःतथा त्वमपि राधेयं सर्वतः परिपालय ॥६॥
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान्शकुनिः सौबलो द्रौणिरहमेव च नो बलम्एषामेव कृतो भागो नवधा पृतनापते ॥७॥
नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनःताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ॥८॥
वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौकृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ॥९॥
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधिअस्मदीयाश्च बहवः स्वर्गायोपगता रणेत्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः ॥१०॥
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतःभवांश्च पुरुषव्याघ्र सर्वलोकमहारथःतस्मिञ्जयाशा विपुला मम मद्रजनाधिप ॥११॥
पार्थस्य समरे कृष्णो यथाभीशुवरग्रहःतेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिवयानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते ॥१२॥
पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून्अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ॥१३॥
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युतेतं भागं सह कर्णेन युगपन्नाशयाहवे ॥१४॥
सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिषतथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ॥१५॥
रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान्संनिपातः समो लोके भवतोर्नास्ति कश्चन ॥१६॥
यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम्तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ॥१७॥
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यतिदेवतानामपि रणे सशक्राणां महीपतेकिं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम ॥१८॥
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितःत्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः ॥१९॥
क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजःकुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥२०॥
अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसेयन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति ॥२१॥
अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससिन चाहं युधि राधेयं गणये तुल्यमात्मना ॥२२॥
आदिश्यतामभ्यधिको ममांशः पृथिवीपतेतमहं समरे हत्वा गमिष्यामि यथागतम् ॥२३॥
अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दनपश्य वीर्यं ममाद्य त्वं संग्रामे दहतो रिपून् ॥२४॥
न चाभिकामान्कौरव्य विधाय हृदये पुमान्अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ॥२५॥
युधि चाप्यवमानो मे न कर्तव्यः कथंचनपश्य हीमौ मम भुजौ वज्रसंहननोपमौ ॥२६॥
धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान्रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैःगदां च पश्य गान्धारे हेमपट्टविभूषिताम् ॥२७॥
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान्शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव ॥२८॥
तन्मामेवंविधं जानन्समर्थमरिनिग्रहेकस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप ॥२९॥
न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसिन हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे ॥३०॥
यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम्वशे पापीयसो धत्ते तत्पापमधरोत्तरम् ॥३१॥
ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसःऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिःतेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ॥३२॥
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारतगोप्तारः संग्रहीतारो दातारः क्षत्रियाः स्मृताः ॥३३॥
याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैःलोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि ॥३४॥
कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशःब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ॥३५॥
ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाःन विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ ॥३६॥
सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसंभवःमहारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम् ॥३७॥
सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दनसूतपुत्रस्य संग्रामे सारथ्यं कर्तुमुत्सहे ॥३८॥
अवमानमहं प्राप्य न योत्स्यामि कथंचनआपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् ॥३९॥
एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनःउत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥४०॥
प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तवअब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् ॥४१॥
यथा शल्य त्वमात्थेदमेवमेतदसंशयम्अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ॥४२॥
न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथंचनन हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ॥४३॥
ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाःतस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥४४॥
शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानदतस्माच्छल्येति ते नाम कथ्यते पृथिवीपते ॥४५॥
यदेव व्याहृतं पूर्वं भवता भूरिदक्षिणतदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे ॥४६॥
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान्वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे ॥४७॥
यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनंजयात्वासुदेवादपि त्वां च लोकोऽयमिति मन्यते ॥४८॥
कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभभवानप्यधिकः कृष्णादश्वयाने बले तथा ॥४९॥
यथाश्वहृदयं वेद वासुदेवो महामनाःद्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः ॥५०॥
शल्य उवाच
यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरवविशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥५१॥
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनःयुध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥५२॥
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रतिउत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ ॥५३॥
संजय उवाच
तथेति राजन्पुत्रस्ते सह कर्णेन भारतअब्रवीन्मद्रराजस्य सुतं भरतसत्तम ॥५४॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 23

0
Adhyaya 23Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0