महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · कर्ण पर्व
॥ श्रीः ॥
अध्याय 24
महाभारत · कर्ण पर्व
दुर्योधन उवाच
भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणुयथा पुरा वृत्तमिदं युद्धे देवासुरे विभो ॥१॥
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिःतदशेषेण ब्रुवतो मम राजर्षिसत्तमत्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा ॥२॥
देवानामसुराणां च महानासीत्समागमःबभूव प्रथमो राजन्संग्रामस्तारकामयःनिर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ॥३॥
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयःताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥४॥
तप उग्रं समास्थाय नियमे परमे स्थिताःतपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन ॥५॥
दमेन तपसा चैव नियमेन च पार्थिवतेषां पितामहः प्रीतो वरदः प्रददौ वरान् ॥६॥
अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदासहिता वरयामासुः सर्वलोकपितामहम् ॥७॥
तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरःनास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराःवरमन्यं वृणीध्वं वै यादृशं संप्ररोचते ॥८॥
ततस्ते सहिता राजन्संप्रधार्यासकृद्बहुसर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् ॥९॥
अस्माकं त्वं वरं देव प्रयच्छेमं पितामहवयं पुराणि त्रीण्येव समास्थाय महीमिमाम्विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥१०॥
ततो वर्षसहस्रे तु समेष्यामः परस्परम्एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥११॥
समागतानि चैतानि यो हन्याद्भगवंस्तदाएकेषुणा देववरः स नो मृत्युर्भविष्यतिएवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥१२॥
ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम्पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम्विश्वकर्माणमजरं दैत्यदानवपूजितम् ॥१३॥
ततो मयः स्वतपसा चक्रे धीमान्पुराणि हत्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा ॥१४॥
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते ॥१५॥
एकैकं योजनशतं विस्तारायामसंमितम्गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् ॥१६॥
गुणप्रसवसंबाधमसंबाधमनामयम्प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् ॥१७॥
पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक्काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनःराजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥१८॥
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसाआक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः ॥१९॥
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि चकोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततःमहदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥२०॥
सर्वेषां च पुनस्तेषां सर्वयोगवहो मयःतमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः ॥२१॥
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयःतस्मै कामं मयस्तं तं विदधे मायया तदा ॥२२॥
तारकाक्षसुतश्चासीद्धरिर्नाम महाबलःतपस्तेपे परमकं येनातुष्यत्पितामहः ॥२३॥
स तुष्टमवृणोद्देवं वापी भवतु नः पुरेशस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥२४॥
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिःससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो ॥२५॥
येन रूपेण दैत्यस्तु येन वेषेण चैव हमृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ॥२६॥
तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरेमहता तपसा सिद्धाः सुराणां भयवर्धनाःन तेषामभवद्राजन्क्षयो युद्धे कथंचन ॥२७॥
ततस्ते लोभमोहाभ्यामभिभूता विचेतसःनिर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् ॥२८॥
विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदाविचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥२९॥
देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम्ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथाव्यनाशयन्त मर्यादा दानवा दुष्टचारिणः ॥३०॥
ते देवाः सहिताः सर्वे पितामहमरिंदमअभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः ॥३१॥
ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य चवधोपायमपृच्छन्त भगवन्तं पितामहम् ॥३२॥
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच हअसुराश्च दुरात्मानस्ते चापि विबुधद्विषःअपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत ॥३३॥
अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयःअधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः ॥३४॥
ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम्योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् ॥३५॥
इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाःब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ॥३६॥
तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम्ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ॥३७॥
तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम्सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना ॥३८॥
तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनःयः सांख्यमात्मनो वेद यस्य चात्मा वशे सदा ॥३९॥
ते तं ददृशुरीशानं तेजोराशिमुमापतिम्अनन्यसदृशं लोके व्रतवन्तमकल्मषम् ॥४०॥
एकं च भगवन्तं ते नानारूपमकल्पयन्आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनिपरस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥४१॥
सर्वभूतमयं चेशं तमजं जगतः पतिम्देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥४२॥
तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शंकरःब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥४३॥
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसःनमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् ॥४४॥
नमो देवातिदेवाय धन्विने चातिमन्यवेप्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे ॥४५॥
नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवेविलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥४६॥
अमोघाय मृगाक्षाय प्रवरायुधयोधिनेदुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ॥४७॥
ईशानायाप्रमेयाय नियन्त्रे चर्मवाससेतपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे ॥४८॥
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणेप्रपन्नार्तिविनाशाय ब्रह्मद्विट्संघघातिने ॥४९॥
वनस्पतीनां पतये नराणां पतये नमःगवां च पतये नित्यं यज्ञानां पतये नमः ॥५०॥
नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसेमनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥५१॥
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान्प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥५२॥
पितृदेवर्षिसंघेभ्यो वरे दत्ते महात्मनासत्कृत्य शंकरं प्राह ब्रह्मा लोकहितं वचः ॥५३॥
तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम्मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥५४॥
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हतित्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥५५॥
स त्वं देव प्रपन्नानां याचतां च दिवौकसाम्कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् ॥५६॥
श्रीभगवानुवाचहन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिःन त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् ॥५७॥
ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसाजयध्वं युधि ताञ्शत्रून्संघातो हि महाबलः ॥५८॥
देवा ऊचुःअस्मत्तेजोबलं यावत्तावद्द्विगुणमेव चतेषामिति ह मन्यामो दृष्टतेजोबला हि ते ॥५९॥
भगवानुवाचवध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनःमम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् ॥६०॥
देवा ऊचुःबिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वरसर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥६१॥
दुर्योधन उवाच
ततस्तथेति देवेशस्तैरुक्तो राजसत्तमअर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् ॥६२॥
स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरःमहादेव इति ख्यातस्तदाप्रभृति शंकरः ॥६३॥
ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम्हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः ॥६४॥
ते यूयं मे रथं चैव धनुर्बाणं तथैव चपश्यध्वं यावदद्यैतान्पातयामि महीतले ॥६५॥
देवा ऊचुःमूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततःरथं ते कल्पयिष्याम देवेश्वर महौजसम् ॥६६॥
तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम्ततो विबुधशार्दूलास्तं रथं समकल्पयन् ॥६७॥
वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम्सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ॥६८॥
मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीःदिशश्च प्रदिशश्चैव परिवारं रथस्य हि ॥६९॥
अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाःधर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम्ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः ॥७०॥
सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमेपक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥७१॥
दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम्द्यां युगं युगचर्माणि संवर्तकबलाहकान् ॥७२॥
शम्यां धृतिं च मेधां च स्थितिं संनतिमेव चग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥७३॥
सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान्सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम्योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् ॥७४॥
कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयःअधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती ॥७५॥
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताःविद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् ॥७६॥
एवं तस्मिन्महाराज कल्पिते रथसत्तमेदेवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥७७॥
स्वान्यायुधानि मुख्यानि न्यदधाच्छंकरो रथेरथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् ॥७८॥
ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरःपरिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः ॥७९॥
अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनःऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ॥८०॥
इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुःदिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः ॥८१॥
तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव चओंकारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥८२॥
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुःतस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा ॥८३॥
इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव चअग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ॥८४॥
विष्णुश्चात्मा भगवतो भवस्यामिततेजसःतस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥८५॥
तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुःभृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥८६॥
स नीललोहितो धूम्रः कृत्तिवासा भयंकरःआदित्यायुतसंकाशस्तेजोज्वालावृतो ज्वलन् ॥८७॥
दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरःनित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् ॥८८॥
प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतःविभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः ॥८९॥
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् ॥९०॥
दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनीबाणमादत्त तं दिव्यं सोमविष्ण्वग्निसंभवम् ॥९१॥
तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोःपुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ॥९२॥
तमास्थाय महादेवस्त्रासयन्दैवतान्यपिआरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥९३॥
स शोभमानो वरदः खड्गी बाणी शरासनीहसन्निवाब्रवीद्देवो सारथिः को भविष्यति ॥९४॥
तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यतेस भविष्यति देवेश सारथिस्ते न संशयः ॥९५॥
तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यःतं सारथिं कुरुध्वं मे स्वयं संचिन्त्य माचिरम् ॥९६॥
एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मनागत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् ॥९७॥
देव त्वयेदं कथितं त्रिदशारिनिबर्हणम्तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः ॥९८॥
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतःसारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥९९॥
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तमसफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥१००॥
एवमस्मासु हि पुरा भगवन्नुक्तवानसिहितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि ॥१०१॥
स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम्पिनाकपाणिर्विहितोऽत्र योद्धा; विभीषयन्दानवानुद्यतोऽसौ ॥१०२॥
तथैव वेदाश्चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन्नक्षत्रवंशोऽनुगतो वरूथे; यस्मिन्योद्धा सारथिनाभिरक्ष्यः ॥१०३॥
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान्तत्प्रतिष्ठो रथो देव हया योद्धा तथैव चकवचानि च शस्त्राणि कार्मुकं च पितामह ॥१०४॥
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम्त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभोसारथ्ये तूर्णमारोह संयच्छ परमान्हयान् ॥१०५॥
इति ते शिरसा नत्वा त्रिलोकेशं पितामहम्देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥१०६॥
ब्रह्मोवाचनात्र किंचिन्मृषा वाक्यं यदुक्तं वो दिवौकसःसंयच्छामि हयानेष युध्यतो वै कपर्दिनः ॥१०७॥
ततः स भगवान्देवो लोकस्रष्टा पितामहःसारथ्ये कल्पितो देवैरीशानस्य महात्मनः ॥१०८॥
तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजितेशिरोभिरगमंस्तूर्णं ते हया वातरंहसः ॥१०९॥
महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् ॥११०॥
अभीशून्हि त्रिलोकेशः संगृह्य प्रपितामहःतानश्वांश्चोदयामास मनोमारुतरंहसः ॥१११॥
ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रतिसाधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥११२॥
याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितःपश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥११३॥
ततस्तांश्चोदयामास वायुवेगसमाञ्जवेयेन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् ॥११४॥
अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम्युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥११५॥
तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुकेपुराणि तानि कालेन जग्मुरेकत्वतां तदा ॥११६॥
एकीभावं गते चैव त्रिपुरे समुपागतेबभूव तुमुलो हर्षो दैवतानां महात्मनाम् ॥११७॥
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयःजयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः ॥११८॥
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान्अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ॥११९॥
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुःत्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रतितत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ॥१२०॥
एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतःमहेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥१२१॥
स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितःमा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥१२२॥
ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयःतुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् ॥१२३॥
तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम्कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥१२४॥
यथैव भगवान्ब्रह्मा लोकधाता पितामहःसंयच्छ त्वं हयानस्य राधेयस्य महात्मनः ॥१२५॥
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतःविशिष्टो राजशार्दूल नास्ति तत्र विचारणा ॥१२६॥
युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघतस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् ॥१२७॥
यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम्प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम्त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ॥१२८॥
इमं चाप्यपरं भूय इतिहासं निबोध मेपितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् ॥१२९॥
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम्कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥१३०॥
भार्गवाणां कुले जातो जमदग्निर्महातपाःतस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥१३१॥
स तीव्रं तप आस्थाय प्रसादयितवान्भवम्अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥१३२॥
तस्य तुष्टो महादेवो भक्त्या च प्रशमेन चहृद्गतं चास्य विज्ञाय दर्शयामास शंकरः ॥१३३॥
ईश्वर उवाच
राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम्कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥१३४॥
दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसिअपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥१३५॥
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिनाप्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥१३६॥
यदा जानासि देवेश पात्रं मामस्त्रधारणेतदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥१३७॥
दुर्योधन उवाच
ततः स तपसा चैव दमेन नियमेन चपूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥१३८॥
आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदाप्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥१३९॥
अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतःभक्तिमानेष सततं मयि रामो दृढव्रतः ॥१४०॥
एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुःदेवतानां पितॄणां च समक्षमरिसूदनः ॥१४१॥
एतस्मिन्नेव काले तु दैत्या आसन्महाबलाःतैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः ॥१४२॥
ततः संभूय विबुधास्तान्हन्तुं कृतनिश्चयाःचक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते ॥१४३॥
अभिगम्य ततो देवा महेश्वरमथाब्रुवन्प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति ॥१४४॥
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम्रामं भार्गवमाहूय सोऽभ्यभाषत शंकरः ॥१४५॥
रिपून्भार्गव देवानां जहि सर्वान्समागतान्लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥१४६॥
राम उवाच
अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वरनिहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥१४७॥
ईश्वर उवाच
गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान्विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥१४८॥
दुर्योधन उवाच
एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशःरामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥१४९॥
अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान्वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥१५०॥
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमःसंस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ॥१५१॥
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वैवरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने ॥१५२॥
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिनानिपातात्तव शस्त्राणां शरीरे याभवद्रुजा ॥१५३॥
तया ते मानुषं कर्म व्यपोढं भृगुनन्दनगृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् ॥१५४॥
ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान्लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् ॥१५५॥
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाःएवमेतत्पुरावृत्तं तदा कथितवानृषिः ॥१५६॥
भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मनेकर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ॥१५७॥
वृजिनं हि भवेत्किंचिद्यदि कर्णस्य पार्थिवनास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ॥१५८॥
नापि सूतकुले जातं कर्णं मन्ये कथंचनदेवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ॥१५९॥
सकुण्डलं सकवचं दीर्घबाहुं महारथम्कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥१६०॥
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौवक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ॥१६१॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0