Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ॥१॥
ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात्उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥२॥
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान्हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ॥३॥
ते प्रेषिता महाराज शल्येनाहवशोभिनाभीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥४॥
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितःमतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ॥५॥
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम्संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम ॥६॥
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदःदुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ॥७॥
अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षतहन्ता वास्मि रणे कर्णं स वा मां निहनिष्यतिसंग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ॥८॥
राजानमद्य भवतां न्यासभूतं ददामि वैअस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥९॥
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रतिसिंहनादेन महता सर्वाः संनादयन्दिशः ॥१०॥
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ॥११॥
पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम्दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥१२॥
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचनअभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ॥१३॥
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणेबिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ॥१४॥
इति ब्रुवति राधेयं मद्राणामीश्वरे नृपअभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ॥१५॥
तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम्अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥१६॥
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वरभीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥१७॥
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरःनिरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥१८॥
अज्ञातवासं वसता विराटनगरे तदाद्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्गूढभावं समाश्रित्य कीचकः सगणो हतः ॥१९॥
सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितःकिंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥२०॥
चिरकालाभिलषितो ममायं तु मनोरथःअर्जुनं समरे हन्यां मां वा हन्याद्धनंजयःस मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥२१॥
निहते भीमसेने तु यदि वा विरथीकृतेअभियास्यति मां पार्थस्तन्मे साधु भविष्यतिअत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय ॥२२॥
एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनःउवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥२३॥
अभियासि महाबाहो भीमसेनं महाबलम्निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ॥२४॥
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतःस वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥२५॥
एवमुक्ते ततः कर्णः शल्यं पुनरभाषतहन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयःयुद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥२६॥
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पतेयत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥२७॥
ततस्तूर्यनिनादश्च भेरीणां च महास्वनःउदतिष्ठत राजेन्द्र कर्णभीमसमागमे ॥२८॥
भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम्नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥२९॥
स संनिपातस्तुमुलो भीमरूपो विशां पतेआसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधेततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ॥३०॥
तमापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषःआजघानोरसि क्रुद्धो नाराचेन स्तनान्तरेपुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥३१॥
स विद्धः सूतपुत्रेण छादयामास पत्रिभिःविव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ॥३२॥
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणाअथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरेनाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥३३॥
सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरःराजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैःननाद बलवन्नादं कम्पयन्निव रोदसी ॥३४॥
तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत्मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥३५॥
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितःसंरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया ॥३६॥
स कार्मुके महावेगं भारसाधनमुत्तमम्गिरीणामपि भेत्तारं सायकं समयोजयत् ॥३७॥
विकृष्य बलवच्चापमा कर्णादतिमारुतिःतं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥३८॥
स विसृष्टो बलवता बाणो वज्राशनिस्वनःअदारयद्रणे कर्णं वज्रवेग इवाचलम् ॥३९॥
स भीमसेनाभिहतो सूतपुत्रः कुरूद्वहनिषसाद रथोपस्थे विसंज्ञः पृतनापतिः ॥४०॥
ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम्अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥४१॥
ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम्व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ॥४२॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 34

0
Adhyaya 34Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0