Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
क्षत्रियास्ते महाराज परस्परवधैषिणःअन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ॥१॥
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततःगजौघाश्च महाराज संसक्ताः स्म परस्परम् ॥२॥
गदानां परिघाणां च कणपानां च सर्पताम्प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ॥३॥
संपातं चान्वपश्याम संग्रामे भृशदारुणेशलभा इव संपेतुः समन्ताच्छरवृष्टयः ॥४॥
नागा नागान्समासाद्य व्यधमन्त परस्परम्हया हयांश्च समरे रथिनो रथिनस्तथापत्तयः पत्तिसंघैश्च हयसंघैर्हयास्तथा ॥५॥
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव चनागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥६॥
पततां तत्र शूराणां क्रोशतां च परस्परम्घोरमायोधनं जज्ञे पशूनां वैशसं यथा ॥७॥
रुधिरेण समास्तीर्णा भाति भारत मेदिनीशक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ॥८॥
यथा वा वाससी शुक्ले महारजनरञ्जितेबिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरामांसशोणितचित्रेव शातकौम्भमयीव च ॥९॥
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सहकुण्डलानां प्रविद्धानां भूषणानां च भारत ॥१०॥
निष्काणामधिसूत्राणां शरीराणां च धन्विनाम्वर्मणां सपताकानां संघास्तत्रापतन्भुवि ॥११॥
गजान्गजाः समासाद्य विषाणाग्रैरदारयन्विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ॥१२॥
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इवयथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ॥१३॥
तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून्हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ॥१४॥
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाःहिमागमे महाराज व्यभ्रा इव महीधराः ॥१५॥
शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाःउल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष ॥१६॥
केचिदभ्याहता नागा नागैर्नगनिभा भुविनिपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ॥१७॥
अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताःप्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥१८॥
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान्मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ॥१९॥
हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाःनिषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥२०॥
अपरे कृष्यमाणाश्च विवेष्टन्तो महीतलेभावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥२१॥
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिषदृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥२२॥
धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारतगोत्रनामानि ख्यातानि शशंसुरितरेतरम् ॥२३॥
तेषां छिन्ना महाराज भुजाः कनकभूषणाःउद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ॥२४॥
निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशःवेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ॥२५॥
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पतेलोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥२६॥
वर्तमाने तथा घोरे संकुले सर्वतोदिशम्अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥२७॥
भौमेन रजसा कीर्णे शस्त्रसंपातसंकुलेनैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ॥२८॥
तथा तदभवद्युद्धं घोररूपं भयानकम्शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥२९॥
शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाःअस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः ॥३०॥
मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाःनदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ॥३१॥
ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम्अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ॥३२॥
क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र हघोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ॥३३॥
उत्थितान्यगणेयानि कबन्धानि समन्ततःनृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः ॥३४॥
पीत्वा च शोणितं तत्र वसां पीत्वा च भारतमेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हिधावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ॥३५॥
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम्योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥३६॥
शरशक्तिसमाकीर्णे क्रव्यादगणसंकुलेव्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् ॥३७॥
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारतपितृनामानि च रणे गोत्रनामानि चाभितः ॥३८॥
श्रावयन्तो हि बहवस्तत्र योधा विशां पतेअन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ॥३९॥
वर्तमाने तदा युद्धे घोररूपे सुदारुणेव्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥४०॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 36

0
Adhyaya 36Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0