Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जनेगाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ॥१॥
संशप्तकानां कदनमकरोद्यत्र पाण्डवःकोसलानां तथा राजन्नारायणबलस्य च ॥२॥
संशप्तकास्तु समरे शरवृष्टिं समन्ततःअपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥३॥
तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुःव्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ॥४॥
निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैःआससाद रणे पार्थः सुशर्माणं महारथम् ॥५॥
स तस्य शरवर्षाणि ववर्ष रथिनां वरःतथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥६॥
सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैःजनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजेततोऽपरेण भल्लेन केतुं विव्याध मारिष ॥७॥
स वानरवरो राजन्विश्वकर्मकृतो महान्ननाद सुमहन्नादं भीषयन्वै ननर्द च ॥८॥
कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनीभयं विपुलमादाय निश्चेष्टा समपद्यत ॥९॥
ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृपनानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ॥१०॥
प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तमअर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इवपरिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ॥११॥
ते हयान्रथचक्रे च रथेषाश्चापि भारतनिगृह्य बलवत्तूर्णं सिंहनादमथानदन् ॥१२॥
अपरे जगृहुश्चैव केशवस्य महाभुजौपार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ॥१३॥
केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनिपातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ॥१४॥
ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैःनिगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम्रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ॥१५॥
आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिःच्यावयामास समरे केशवं चेदमब्रवीत् ॥१६॥
पश्य कृष्ण महाबाहो संशप्तकगणान्मयाकुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ॥१७॥
रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चनयः सहेत पुमाँल्लोके मदन्यो यदुपुंगव ॥१८॥
इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत्पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ॥१९॥
तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनीसंचचाल महाराज वित्रस्ता चाभवद्भृशम् ॥२०॥
पदबन्धं ततश्चक्रे पाण्डवः परवीरहानागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः ॥२१॥
यानुद्दिश्य रणे पार्थः पदबन्धं चकार हते बद्धाः पदबन्धेन पाण्डवेन महात्मनानिश्चेष्टा अभवन्राजन्नश्मसारमया इव ॥२२॥
निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनःयथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥२३॥
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम्आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥२४॥
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम्सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥२५॥
ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान्ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ॥२६॥
बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पतेमेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥२७॥
विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रतिससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष ॥२८॥
तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिःव्यवातिष्ठत्ततो योधान्वासविः परवीरहा ॥२९॥
सुशर्मा तु ततो राजन्बाणेनानतपर्वणाअर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैःस गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३०॥
प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिःऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितःततो बाणसहस्राणि समुत्पन्नानि मारिष ॥३१॥
सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान्हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ॥३२॥
वध्यमाने ततः सैन्ये विपुला भीः समाविशत्संशप्तकगणानां च गोपालानां च भारतन हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ॥३३॥
पश्यतां तत्र वीराणामहन्यत महद्बलम्हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ॥३४॥
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणेव्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ॥३५॥
चतुर्दश सहस्राणि यानि शिष्टानि भारतरथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ॥३६॥
ततः संशप्तका भूयः परिवव्रुर्धनंजयम्मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् ॥३७॥
तत्र युद्धं महद्ध्यासीत्तावकानां विशां पतेशूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥३८॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 37

0
Adhyaya 37Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0