Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिषउलूकः सौबलश्चैव राजा च सह सोदरैः ॥१॥
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ॥२॥
ततो युद्धमतीवासीन्मुहूर्तमिव भारतभीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥३॥
कृपेण शरवर्षाणि विप्रमुक्तानि संयुगेसृञ्जयाः शातयामासुः शलभानां व्रजा इव ॥४॥
शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे ॥५॥
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥६॥
ततः शिखण्डी कुपीतः शरैः सप्तभिराहवेकृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ॥७॥
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथःव्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ॥८॥
हताश्वात्तु ततो यानादवप्लुत्य महारथःचर्मखड्गे च संगृह्य सत्वरं ब्राह्मणं ययौ ॥९॥
तमापतन्तं सहसा शरैः संनतपर्वभिःछादयामास समरे तदद्भुतमिवाभवत् ॥१०॥
तत्राद्भुतमपश्याम शिलानां प्लवनं यथानिश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ॥११॥
कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम्प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥१२॥
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रतिप्रतिजग्राह वेगेन कृतवर्मा महारथः ॥१३॥
युधिष्ठिरमथायान्तं शारद्वतरथं प्रतिसपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् ॥१४॥
नकुलं सहदेवं च त्वरमाणौ महारथौप्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥१५॥
भीमसेनं करूषांश्च केकयान्सहसृञ्जयान्कर्णो वैकर्तनो युद्धे वारयामास भारत ॥१६॥
शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधिप्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ॥१७॥
ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान्चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ॥१८॥
शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य हव्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥१९॥
स विचर्मा महाराज खड्गपाणिरुपाद्रवत्कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ॥२०॥
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम्चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥२१॥
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैःअभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥२२॥
दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम्अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥२३॥
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैःविद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥२४॥
अथास्य सशरं चापं पुनश्चिच्छेद मारिषसारथिं च शरेणास्य भृशं मर्मण्यताडयत् ॥२५॥
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥२६॥
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमेभूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ॥२७॥
चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम्सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् ॥२८॥
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः ॥२९॥
तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाःगौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥३०॥
धृष्टद्युम्नं तु समरे संनिवार्य महाबलःकृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ॥३१॥
तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणेआमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप ॥३२॥
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैःआजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ॥३३॥
कृतवर्मा तु समरे पार्षतेन दृढाहतःपार्षतं सरथं साश्वं छादयामास सायकैः ॥३४॥
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यतेमेघैरिव परिच्छन्नो भास्करो जलदागमे ॥३५॥
विधूय तं बाणगणं शरैः कनकभूषणैःव्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥३६॥
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥३७॥
तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम्शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ॥३८॥
दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम्कृतवर्माणमभ्येत्य वारयामास पार्षतः ॥३९॥
सारथिं चास्य तरसा प्राहिणोद्यमसादनम्भल्लेन शितधारेण स हतः प्रापतद्रथात् ॥४०॥
धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम्कौरवान्समरे तूर्णं वारयामास सायकैः ॥४१॥
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्सिंहनादरवं कृत्वा ततो युद्धमवर्तत ॥४२॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 38

0
Adhyaya 38Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0