Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौहतमाधिरथिं मेने संख्ये गाण्डीवधन्वना ॥१॥
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुनास्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ ॥२॥
युधिष्ठिर उवाच
स्वागतं देवकीपुत्र स्वागतं ते धनंजयप्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ ॥३॥
अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम्आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ॥४॥
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म चरक्षितं वृषसेनेन सुषेणेन च धन्विना ॥५॥
अनुज्ञातं महावीर्यं रामेणास्त्रेषु दुर्जयम्त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ॥६॥
हन्तारमरिसैन्यानाममित्रगणमर्दनम्दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् ॥७॥
अप्रधृष्यं महायुद्धे देवैरपि सवासवैःअनलानिलयोस्तुल्यं तेजसा च बलेन च ॥८॥
पातालमिव गम्भीरं सुहृदानन्दवर्धनम्अन्तकाभममित्राणां कर्णं हत्वा महाहवेदिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ॥९॥
तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौकुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता ॥१०॥
तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथीहतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥११॥
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनःपश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः ॥१२॥
एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून्जितवान्मां महाबाहो यतमानं महारणे ॥१३॥
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहुतत्र तत्र युधां श्रेष्ठः परिभूय न संशयः ॥१४॥
भीमसेनप्रभावात्तु यज्जीवामि धनंजयबहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ॥१५॥
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनंजयन स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥१६॥
तस्य द्वेषेण संयुक्तः परिदह्ये धनंजयआत्मनो मरणं जानन्वाध्रीणस इव द्विपः ॥१७॥
यस्यायमगमत्कालश्चिन्तयानस्य मे विभोकथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् ॥१८॥
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम्पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ॥१९॥
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनंजयतत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥२०॥
सोऽहं तेनैव वीरेण समरेष्वपलायिनासहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥२१॥
को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनःममैवं धिक्कृतस्येह कर्णेनाहवशोभिना ॥२२॥
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगेतत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥२३॥
तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथातन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः ॥२४॥
शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमःरामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ॥२५॥
महारथः समाख्यातः सर्वयुद्धविशारदःधनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ॥२६॥
पूजितो धृतराष्ट्रेण सपुत्रेण विशां पतेसदा त्वदर्थं राधेयः स कथं निहतस्त्वया ॥२७॥
धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुनतव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ॥२८॥
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितःतं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया ॥२९॥
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः ॥३०॥
यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन्दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ॥३१॥
त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्माकच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य ॥३२॥
यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रःस शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य ॥३३॥
रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थेसदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे ॥३४॥
योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम्प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य ॥३५॥
कच्चित्समागम्य धनुःप्रमुक्तै;स्त्वत्प्रेषितैर्लोहितार्थैर्विहंगैःशेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः ॥३६॥
योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णःअहं हन्ता फल्गुनस्येति मोहा;त्कच्चिद्धतस्तस्य न वै तथा रथः ॥३७॥
नाहं पादौ धावयिष्ये कदाचि;द्यावत्स्थितः पार्थ इत्यल्पबुद्धिःव्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः ॥३८॥
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्येकिं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान् ॥३९॥
यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम्इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसंभिन्नगात्रः ॥४०॥
कच्चित्संग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम्यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य ॥४१॥
कच्चित्त्वया तस्य सुमन्दबुद्धे;र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिःसकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन् ॥४२॥
यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीरतन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन ॥४३॥
यद्दर्पपूर्णः स सुयोधनोऽस्मा;नवेक्षते कर्णसमाश्रयेणकच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य ॥४४॥
यो नः पुरा षण्ढतिलानवोच;त्सभामध्ये पार्थिवानां समक्षम्स दुर्मतिः कच्चिदुपेत्य संख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी ॥४५॥
यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेनस्वयं प्रसह्यानय याज्ञसेनी;मपीह कच्चित्स हतस्त्वयाद्य ॥४६॥
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताःसंख्यायमानोऽर्धरथः स कच्चि;त्त्वया हतोऽद्याधिरथिर्दुरात्मा ॥४७॥
अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा ममहतो मया सोऽद्य समेत्य पापधी;रिति ब्रुवन्प्रशमय मेऽद्य फल्गुन ॥४८॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 46

0
Adhyaya 46Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0