Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगेअर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः ॥१॥
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत्एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥२॥
आयान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैःजम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रमिवोग्रमन्युम् ॥३॥
रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर्नेमिखुरस्वनैश्चसंनादयन्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जयमभ्युदीयुः ॥४॥
तेषां च पार्थस्य महत्तदासी;द्देहासुपाप्मक्षपणं सुयुद्धम्त्रैलोक्यहेतोरसुरैर्यथासी;द्देवस्य विष्णोर्जयतां वरस्य ॥५॥
तैरस्तमुच्चावचमायुधौघ;मेकः प्रचिच्छेद किरीटमालीक्षुरार्धचन्द्रैर्निशितैश्च बाणैः; शिरांसि तेषां बहुधा च बाहून् ॥६॥
छत्राणि वालव्यजनानि केतू;नश्वान्रथान्पत्तिगणान्द्विपांश्चते पेतुरुर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि ॥७॥
सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताःसुवर्णपुङ्खैरिषुभिः समाचिता;श्चकाशिरे प्रज्वलिता यथाचलाः ॥८॥
विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैःद्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान्बलभेदने पुरा ॥९॥
ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदमप्रविवेश महाबाहुर्मकरः सागरं यथा ॥१०॥
तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताःगजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥११॥
तत्राभिद्रवतां पार्थमारावः सुमहानभूत्सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ॥१२॥
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाःअभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम् ॥१३॥
तेषामापततां तत्र शरवर्षाणि मुञ्चताम्अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥१४॥
तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणःअभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥१५॥
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम्प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥१६॥
ते वध्यमानाः समरे पार्थचापच्युतैः शरैःतत्र तत्र स्म लीयन्ते भये जाते महारथाः ॥१७॥
तेषां चतुःशतान्वीरान्यतमानान्महारथान्अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥१८॥
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैःअर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् ॥१९॥
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखेमहौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥२०॥
तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैःप्रायादभिमुखः पार्थः सूतानीकानि मारिष ॥२१॥
तस्य शब्दो महानासीत्परानभिमुखस्य वैगरुडस्येव पततः पन्नगार्थे यथा पुरा ॥२२॥
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलःबभूव परमप्रीतः पार्थदर्शनलालसः ॥२३॥
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान्त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥२४॥
स वायुवेगप्रतिमो वायुवेगसमो जवेवायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥२५॥
तेनार्द्यमाना राजेन्द्र सेना तव विशां पतेव्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ॥२६॥
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम्शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् ॥२७॥
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम्व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥२८॥
तथार्दितान्भीमबलान्भीमसेनेन भारतदृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥२९॥
सैनिकान्स महेष्वासो योधांश्च भरतर्षभसमादिशद्रणे सर्वान्हत भीममिति स्म हतस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ॥३०॥
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाःभीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥३१॥
गजाश्च बहुला राजन्नराश्च जयगृद्धिनःरथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥३२॥
स तैः परिवृतः शूरैः शूरो राजन्समन्ततःशुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ॥३३॥
स रराज तथा संख्ये दर्शनीयो नरोत्तमःनिर्विशेषं महाराज यथा हि विजयस्तथा ॥३४॥
तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन्क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ॥३५॥
स विदार्य महासेनां शरैः संनतपर्वभिःनिश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥३६॥
हत्वा दश सहस्राणि गजानामनिवर्तिनाम्नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥३७॥
पञ्च चाश्वसहस्राणि रथानां शतमेव चहत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् ॥३८॥
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ॥३९॥
संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम्ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ॥४०॥
धनुष्काशां शरावापां गदापरिघकेतनाम्योधव्रातवतीं संख्ये वहन्तीं यमसादनम् ॥४१॥
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम्यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ॥४२॥
यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमःततस्ततोऽपातयत योधाञ्शतसहस्रशः ॥४३॥
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगेदुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥४४॥
जय मातुल संग्रामे भीमसेनं महाबलम्अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥४५॥
ततः प्रायान्महाराज सौबलेयः प्रतापवान्रणाय महते युक्तो भ्रातृभिः परिवारितः ॥४६॥
स समासाद्य संग्रामे भीमं भीमपराक्रमम्वारयामास तं वीरो वेलेव मकरालयम्स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ॥४७॥
शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरेप्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥४८॥
वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनःन्यमज्जन्त महाराज कङ्कबर्हिणवाससः ॥४९॥
सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम्प्रेषयामास सहसा सौबलं प्रति भारत ॥५०॥
तमायान्तं शरं घोरं शकुनिः शत्रुतापनःचिच्छेद शतधा राजन्कृतहस्तो महाबलः ॥५१॥
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पतेधनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव ॥५२॥
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान्अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥५३॥
तैस्तस्य तु महाराज भल्लैः संनतपर्वभिःचतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च ॥५४॥
ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पतेचतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ॥५५॥
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ॥५६॥
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चलानिपपात रथे तूर्णं सौबलस्य महात्मनः ॥५७॥
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम्भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते ॥५८॥
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनःपपात च ततो भूमौ यथा विद्युन्नभश्च्युता ॥५९॥
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततःन तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥६०॥
स संगृह्य धनुः सज्यं त्वरमाणो महारथःमुहूर्तादिव राजेन्द्र छादयामास सायकैःसौबलस्य बलं संख्ये त्यक्त्वात्मानं महाबलः ॥६१॥
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पतेध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥६२॥
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमःतस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन्शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥६३॥
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान्धनुश्चिच्छेद संक्रुद्धो विव्याध च शितैः शरैः ॥६४॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनःनिपपात ततो भूमौ किंचित्प्राणो नराधिप ॥६५॥
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पतेअपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥६६॥
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाःप्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ॥६७॥
सौबले निर्जिते राजन्भीमसेनेन धन्विनाभयेन महता भग्नः पुत्रो दुर्योधनस्तवअपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥६८॥
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारतविप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥६९॥
तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान्जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् ॥७०॥
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाःकर्णमासाद्य समरे स्थिता राजन्समन्ततःस हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ॥७१॥
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताःभवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ॥७२॥
तथा कर्णं समासाद्य तावका भरतर्षभसमाश्वस्ताः स्थिता राजन्संप्रहृष्टाः परस्परम्समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥७३॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 55

0
Adhyaya 55Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0