Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
धृतराष्ट्र उवाच
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगेदुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय ॥१॥
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधिकृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ॥२॥
अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम्यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ॥३॥
कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनःशर्म वर्म प्रतिष्ठा च जीविताशा च संजय ॥४॥
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसाराधेयानामधिरथः कर्णः किमकरोद्युधि ॥५॥
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाःएतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय ॥६॥
संजय उवाच
अपराह्णे महाराज सूतपुत्रः प्रतापवान्जघान सोमकान्सर्वान्भीमसेनस्य पश्यतःभीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥७॥
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमतायन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥८॥
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान्प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥९॥
प्रविश्य च स तां सेनां शल्यः परबलार्दनःन्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥१०॥
तं रथं मेघसंकाशं वैयाघ्रपरिवारणम्संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥११॥
ततो रथस्य निनदः प्रादुरासीन्महारणेपर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥१२॥
ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैःजघान पाण्डवबलं शतशोऽथ सहस्रशः ॥१३॥
तं तथा समरे कर्म कुर्वाणमतिमानुषम्परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥१४॥
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतःनकुलः सहदेवश्च द्रौपदेयाः ससात्यकाःपरिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥१५॥
सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैःअताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥१६॥
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिःद्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिःनकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥१७॥
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥१८॥
ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम्मुमोच निशितान्बाणान्पीडयन्सुमहाबलःतान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥१९॥
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभःअथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥२०॥
भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैःसारथिं च त्रिभिर्बाणैराजघान परंतपः ॥२१॥
विरथान्द्रौपदेयांश्च चकार पुरुषर्षभःअक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥२२॥
विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिःपाञ्चालानहनच्छूरश्चेदीनां च महारथान् ॥२३॥
ते वध्यमानाः समरे चेदिमत्स्या विशां पतेकर्णमेकमभिद्रुत्य शरसंघैः समार्दयन्ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ॥२४॥
एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारतयदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥२५॥
यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनःपाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥२६॥
तत्र भारत कर्णस्य लाघवेन महात्मनःतुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ॥२७॥
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥२८॥
ततः कर्णो महाराज ददाह रिपुवाहिनीम्कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥२९॥
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततःप्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥३०॥
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणेवध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥३१॥
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूःकर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥३२॥
तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनःयदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥३३॥
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यतेतथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥३४॥
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन्दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥३५॥
शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान्बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥३६॥
हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान्रथांश्च विविधान्राजन्पताका व्यजनानि च ॥३७॥
अक्षेषायुगयोक्त्राणि चक्राणि विविधानि चचिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ॥३८॥
तत्र भारत कर्णेन निहतैर्गजवाजिभिःअगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥३९॥
विषमं च समं चैव हतैरश्वपदातिभिःरथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन ॥४०॥
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥४१॥
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैःसंछादिता महाराज यतमाना महारथाः ॥४२॥
ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनःअभज्यन्त महाराज यतमाना महारथाः ॥४३॥
मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वनेकर्णस्तु समरे योधांस्तत्र तत्र महायशाःकालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥४४॥
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम्अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥४५॥
दुर्योधनो हि राजेन्द्र मुदा परमया युतःवादयामास संहृष्टो नानावाद्यानि सर्वशः ॥४६॥
पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाःन्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥४७॥
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनःअनेकशो महाराज बभञ्ज पुरुषर्षभः ॥४८॥
तत्र भारत कर्णेन पाञ्चाला विंशती रथाःनिहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥४९॥
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारतनिर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥५०॥
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपःकालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ॥५१॥
एवमेतान्महाराज नरवाजिरथद्विपान्हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥५२॥
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलःतथा स सोमकान्हत्वा तस्थावेको महारथः ॥५३॥
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम्वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥५४॥
राजा दुःशासनश्चैव कृपः शारद्वतस्तथाअश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलःन्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥५५॥
कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौअनाशयेतां बलिनः पाञ्चालान्वै ततस्ततःतत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ॥५६॥
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौद्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥५७॥
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततःतावकानामपि रणे भीमं प्राप्य महाबलम् ॥५८॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 56

0
Adhyaya 56Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0