Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
जनमेजय उवाच
एवं निपातिते कर्णे समरे सव्यसाचिनाअल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥१॥
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनःपाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥२॥
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तमन हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥३॥
वैशंपायन उवाच
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनःभृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥४॥
हा कर्ण हा कर्ण इति शोचमानः पुनः पुनःकृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह ॥५॥
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैःराजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् ॥६॥
स दैवं बलवन्मत्वा भवितव्यं च पार्थिवःसंग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ ॥७॥
शल्यं सेनापतिं कृत्वा विधिवद्राजपुंगवःरणाय निर्ययौ राजा हतशेषैर्नृपैः सह ॥८॥
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोःबभूव भरतश्रेष्ठ देवासुररणोपमम् ॥९॥
ततः शल्यो महाराज कृत्वा कदनमाहवेपाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः ॥१०॥
ततो दुर्योधनो राजा हतबन्धू रणाजिरात्अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात् ॥११॥
अथापराह्णे तस्याह्नः परिवार्य महारथैःह्रदादाहूय योगेन भीमसेनेन पातितः ॥१२॥
तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाःसंरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् ॥१३॥
ततः पूर्वाह्णसमये शिबिरादेत्य संजयःप्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥१४॥
प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितःवेपमानस्ततो राज्ञः प्रविवेश निवेशनम् ॥१५॥
रुरोद च नरव्याघ्र हा राजन्निति दुःखितःअहो बत विविग्नाः स्म निधनेन महात्मनः ॥१६॥
अहो सुबलवान्कालो गतिश्च परमा तथाशक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः ॥१७॥
दृष्ट्वैव च पुरो राजञ्जनः सर्वः स संजयम्प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् ॥१८॥
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततःआर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥१९॥
धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान्नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् ॥२०॥
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥२१॥
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम्स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ॥२२॥
तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिःतमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ॥२३॥
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजयनातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा ॥२४॥
संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभमद्राधिपो हतः शल्यः शकुनिः सौबलस्तथाउलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥२५॥
संशप्तका हताः सर्वे काम्बोजाश्च शकैः सहम्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥२६॥
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशःउदीच्या निहताः सर्वे प्रतीच्याश्च नराधिपराजानो राजपुत्राश्च सर्वतो निहता नृप ॥२७॥
दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन चभग्नसक्थो महाराज शेते पांसुषु रूषितः ॥२८॥
धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितःउत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः ॥२९॥
पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताःतव पुत्रा हताः सर्वे द्रौपदेयाश्च भारतकर्णपुत्रो हतः शूरो वृषसेनो महाबलः ॥३०॥
नरा विनिहताः सर्वे गजाश्च विनिपातिताःरथिनश्च नरव्याघ्र हयाश्च निहता युधि ॥३१॥
किंचिच्छेषं च शिबिरं तावकानां कृतं विभोपाण्डवानां च शूराणां समासाद्य परस्परम् ॥३२॥
प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम्सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः ॥३३॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिःकृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥३४॥
तवाप्येते महाराज रथिनो नृपसत्तमअक्षौहिणीनां सर्वासां समेतानां जनेश्वरएते शेषा महाराज सर्वेऽन्ये निधनं गताः ॥३५॥
कालेन निहतं सर्वं जगद्वै भरतर्षभदुर्योधनं वै पुरतः कृत्वा वैरस्य भारत ॥३६॥
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरःनिपपात महाराज गतसत्त्वो महीतले ॥३७॥
तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाःनिपपात महाराज राजव्यसनकर्शितः ॥३८॥
गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितःपतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः ॥३९॥
निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम्प्रलापयुक्ता महती कथा न्यस्ता पटे यथा ॥४०॥
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिःशनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥४१॥
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितःउदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥४२॥
विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशःएवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह ॥४३॥
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचनशीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥४४॥
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिःतूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितःनिःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते ॥४५॥
संजयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम्तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥४६॥
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत्धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः ॥४७॥
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनीतथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् ॥४८॥
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभविसर्जयामास शनैर्वेपमानः पुनः पुनः ॥४९॥
निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभसुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् ॥५०॥
ततो नरपतिं तत्र लब्धसंज्ञं परंतपअवेक्ष्य संजयो दीनो रोदमानं भृशातुरम् ॥५१॥
प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुःसमाश्वासयत क्षत्ता वचसा मधुरेण च ॥५२॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 1

0
Adhyaya 1Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0