Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
पीडिते धर्मराजे तु मद्रराजेन मारिषसात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौपरिवार्य रथैः शल्यं पीडयामासुराहवे ॥१॥
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैःसाधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताःआश्चर्यमित्यभाषन्त मुनयश्चापि संगताः ॥२॥
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमेएकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥३॥
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सयामद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥४॥
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिःविद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः ॥५॥
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैःविकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् ॥६॥
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिषभीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा ॥७॥
ततः सविशिखं चापं सहदेवस्य धन्विनःछित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥८॥
सहदेवस्तु समरे मातुलं भूरिवर्चसम्सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः ॥९॥
सारथिं चास्य समरे शरेणानतपर्वणाविव्याध भृशसंक्रुद्धस्तं च भूयस्त्रिभिः शरैः ॥१०॥
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैःधर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् ॥११॥
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैःसुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥१२॥
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैःविव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥१३॥
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिषधनुश्चिच्छेद समरे सज्यं स सुमहारथः ॥१४॥
अथान्यद्धनुरादाय धर्मपुत्रो महारथःसाश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥१५॥
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैःयुधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ॥१६॥
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दितेमद्राणामधिपं शूरं शरौघैः समवारयत् ॥१७॥
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुःभीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ॥१८॥
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमःतोमरं प्रेषयामास स्वर्णदण्डं महाधनम् ॥१९॥
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्नकुलः समरे शक्तिं सहदेवो गदां शुभाम्धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे ॥२०॥
तानापतत एवाशु पञ्चानां वै भुजच्युतान्सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ॥२१॥
भीमेन प्रहितं चापि शरं कनकभूषणम्द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ॥२२॥
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्गदां च सहदेवेन शरौघैः समवारयत् ॥२३॥
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारतपश्यतां पाण्डुपुत्राणां सिंहनादं ननाद चनामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे ॥२४॥
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितःद्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ॥२५॥
ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैःविव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् ॥२६॥
ते वार्यमाणाः समरे मद्रराज्ञा महारथाःन शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः ॥२७॥
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् ॥२८॥
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान्संत्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥२९॥
नकुलः सहदेवश्च सात्यकिश्च महारथःपरिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥३०॥
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैःवृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥३१॥
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवेचक्ररक्षं जघानाशु मद्रराजस्य पार्थिव ॥३२॥
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथेमद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः ॥३३॥
समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान्चिन्तयामास समरे धर्मराजो युधिष्ठिरः ॥३४॥
कथं नु न भवेत्सत्यं तन्माधववचो महत्न हि क्रुद्धो रणे राजा क्षपयेत बलं मम ॥३५॥
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वजमद्रेश्वरं समासेदुः पीडयन्तः समन्ततः ॥३६॥
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम्व्यधमत्समरे राजन्महाभ्राणीव मारुतः ॥३७॥
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्शरवृष्टिमपश्याम शलभानामिवाततिम् ॥३८॥
ते शरा मद्रराजेन प्रेषिता रणमूर्धनिसंपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥३९॥
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैःनिरन्तरमिवाकाशं संबभूव जनाधिप ॥४०॥
न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यतबाणान्धकारे महति कृते तत्र महाभये ॥४१॥
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिःलोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम्विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥४२॥
स तु तान्सर्वतो यत्ताञ्शरैः संपीड्य मारिषधर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥४३॥
ते छन्नाः समरे तेन पाण्डवानां महारथाःन शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् ॥४४॥
धर्मराजपुरोगास्तु भीमसेनमुखा रथाःन जहुः समरे शूरं शल्यमाहवशोभिनम् ॥४५॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 12

0
Adhyaya 12Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0