Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैःतस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैःद्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ॥१॥
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनंजयःभूयश्चैव महाबाहुः शरवर्षैरवाकिरत् ॥२॥
शरकण्टकितास्ते तु तावका भरतर्षभन जहुः समरे पार्थं वध्यमानाः शितैः शरैः ॥३॥
तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाःअयोधयन्त समरे परिवार्य महारथाः ॥४॥
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताःअर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥५॥
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ ॥६॥
कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभोयुगं चैवानुकर्षं च शरभूतमभूत्तदा ॥७॥
नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम्यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे ॥८॥
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैःउल्काशतैः संप्रदीप्तं विमानमिव भूतले ॥९॥
ततोऽर्जुनो महाराज शरैः संनतपर्वभिःअवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् ॥१०॥
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैःपार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥११॥
ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान्सेनेन्धनं ददाहाशु तावकं पार्थपावकः ॥१२॥
चक्राणां पततां चैव युगानां च धरातलेतूणीराणां पताकानां ध्वजानां च रथैः सह ॥१३॥
ईषाणामनुकर्षाणां त्रिवेणूनां च भारतअक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः ॥१४॥
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम्भुजानां च महाराज स्कन्धानां च समन्ततः ॥१५॥
छत्राणां व्यजनैः सार्धं मुकुटानां च राशयःसमदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥१६॥
अगम्यरूपा पृथिवी मांसशोणितकर्दमाबभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथाभीरूणां त्रासजननी शूराणां हर्षवर्धनी ॥१७॥
हत्वा तु समरे पार्थः सहस्रे द्वे परंतपरथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ॥१८॥
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम्विधूमो दृश्यते राजंस्तथा पार्थो महारथः ॥१९॥
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥२०॥
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौसमीयतुस्तदा तूर्णं परस्परवधैषिणौ ॥२१॥
तयोरासीन्महाराज बाणवर्षं सुदारुणम्जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ ॥२२॥
अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिःततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥२३॥
तयोर्युद्धं महाराज चिरं सममिवाभवत्अस्त्राणां संगमश्चैव घोरस्तत्राभवन्महान् ॥२४॥
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैःवासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥२५॥
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुःमानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे ॥२६॥
व्यश्वसूतरथं चक्रे सव्यसाची महारथःमृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः ॥२७॥
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम्मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥२८॥
तमापतन्तं सहसा हेमपट्टविभूषितम्चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥२९॥
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनःआददे परिघं घोरं नगेन्द्रशिखरोपमम्चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥३०॥
तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवःअर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥३१॥
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवेदारयन्पृथिवीन्द्राणां मनः शब्देन भारत ॥३२॥
ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवःसोऽतिविद्धो बलवता पार्थेन सुमहाबलःन संभ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ॥३३॥
सुधर्मा तु ततो राजन्भारद्वाजं महारथम्अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥३४॥
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथःरथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥३५॥
विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम्ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥३६॥
सुरथं तु ततः क्रुद्धमापतन्तं महारथम्चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥३७॥
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन्उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य चमुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् ॥३८॥
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतःशक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् ॥३९॥
ततस्तं पतितं भूमौ नाराचेन समाहतम्वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् ॥४०॥
तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान्आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥४१॥
ततः सज्जो महाराज द्रौणिराहवदुर्मदःअर्जुनं योधयामास संशप्तकवृतो रणे ॥४२॥
तत्र युद्धं महच्चासीदर्जुनस्य परैः सहमध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥४३॥
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्यदेको युगपद्वीरान्समयोधयदर्जुनः ॥४४॥
विमर्दस्तु महानासीदर्जुनस्य परैः सहशतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया ॥४५॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 13

0
Adhyaya 13Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0