Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
अथान्यद्धनुरादाय बलवद्वेगवत्तरम्युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥१॥
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान्अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥२॥
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैःसहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥३॥
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान्कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनःरथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥४॥
बाहूंश्चिच्छेद च तथा सायुधान्केतनानि चचकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥५॥
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम्परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥६॥
तं भीमसेनश्च शिनेश्च नप्ता; माद्र्याश्च पुत्रौ पुरुषप्रवीरौसमागतं भीमबलेन राज्ञा; पर्यापुरन्योन्यमथाह्वयन्तः ॥७॥
ततस्तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम्आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥८॥
संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्यामथ माधवेनमद्राधिपं पत्रिभिरुग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने ॥९॥
ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम्पर्यावव्रुः प्रवराः सर्वशश्च; दुर्योधनस्यानुमते समन्तात् ॥१०॥
ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिरभ्यविध्यत्तं चापि पार्थो नवभिः पृषत्कै;र्विव्याध राजंस्तुमुले महात्मा ॥११॥
आकर्णपूर्णायतसंप्रयुक्तैः; शरैस्तदा संयति तैलधौतैःअन्योन्यमाच्छादयतां महारथौ; मद्राधिपश्चापि युधिष्ठिरश्च ॥१२॥
ततस्तु तूर्णं समरे महारथौ; परस्परस्यान्तरमीक्षमाणौशरैर्भृशं विव्यधतुर्नृपोत्तमौ; महाबलौ शत्रुभिरप्रधृष्यौ ॥१३॥
तयोर्धनुर्ज्यातलनिस्वनो महा;न्महेन्द्रवज्राशनितुल्यनिस्वनःपरस्परं बाणगणैर्महात्मनोः; प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥१४॥
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ; महावनेष्वामिषगृद्धिनाविवविषाणिनौ नागवराविवोभौ; ततक्षतुः संयुगजातदर्पौ ॥१५॥
ततस्तु मद्राधिपतिर्महात्मा; युधिष्ठिरं भीमबलं प्रसह्यविव्याध वीरं हृदयेऽतिवेगं; शरेण सूर्याग्निसमप्रभेण ॥१६॥
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि; सुसंप्रयुक्तेन शरेण राजन्जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम् ॥१७॥
ततो मुहूर्तादिव पार्थिवेन्द्रो; लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रःशतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः ॥१८॥
त्वरंस्ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैःभित्त्वा ह्युरस्तपनीयं च वर्म; जघान षड्भिस्त्वपरैः पृषत्कैः ॥१९॥
ततस्तु मद्राधिपतिः प्रहृष्टो; धनुर्विकृष्य व्यसृजत्पृषत्कान्द्वाभ्यां क्षुराभ्यां च तथैव राज्ञ;श्चिच्छेद चापं कुरुपुंगवस्य ॥२०॥
नवं ततोऽन्यत्समरे प्रगृह्य; राजा धनुर्घोरतरं महात्माशल्यं तु विद्ध्वा निशितैः समन्ता;द्यथा महेन्द्रो नमुचिं शिताग्रैः ॥२१॥
ततस्तु शल्यो नवभिः पृषत्कै;र्भीमस्य राज्ञश्च युधिष्ठिरस्यनिकृत्य रौक्मे पटुवर्मणी तयो;र्विदारयामास भुजौ महात्मा ॥२२॥
ततोऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुरुन्ममाथकृपश्च तस्यैव जघान सूतं; षड्भिः शरैः सोऽभिमुखं पपात ॥२३॥
मद्राधिपश्चापि युधिष्ठिरस्य; शरैश्चतुर्भिर्निजघान वाहान्वाहांश्च हत्वा व्यकरोन्महात्मा; योधक्षयं धर्मसुतस्य राज्ञः ॥२४॥
तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्माछित्त्वा धनुर्वेगवता शरेण; द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥२५॥
अथापरेणास्य जहार यन्तुः; कायाच्छिरः संनहनीयमध्यात्जघान चाश्वांश्चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः ॥२६॥
तमग्रणीः सर्वधनुर्धराणा;मेकं चरन्तं समरेऽतिवेगम्भीमः शतेन व्यकिरच्छराणां; माद्रीपुत्रः सहदेवस्तथैव ॥२७॥
तैः सायकैर्मोहितं वीक्ष्य शल्यं; भीमः शरैरस्य चकर्त वर्मस भीमसेनेन निकृत्तवर्मा; मद्राधिपश्चर्म सहस्रतारम् ॥२८॥
प्रगृह्य खड्गं च रथान्महात्मा; प्रस्कन्द्य कुन्तीसुतमभ्यधावत्छित्त्वा रथेषां नकुलस्य सोऽथ; युधिष्ठिरं भीमबलोऽभ्यधावत् ॥२९॥
तं चापि राजानमथोत्पतन्तं; क्रुद्धं यथैवान्तकमापतन्तम्धृष्टद्युम्नो द्रौपदेयाः शिखण्डी; शिनेश्च नप्ता सहसा परीयुः ॥३०॥
अथास्य चर्माप्रतिमं न्यकृन्त;द्भीमो महात्मा दशभिः पृषत्कःखड्गं च भल्लैर्निचकर्त मुष्टौ; नदन्प्रहृष्टस्तव सैन्यमध्ये ॥३१॥
तत्कर्म भीमस्य समीक्ष्य हृष्टा;स्ते पाण्डवानां प्रवरा रथौघाःनादं च चक्रुर्भृशमुत्स्मयन्तः; शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥३२॥
तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलमप्रहृष्टम्स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसंज्ञकल्पं च तथा विषण्णम् ॥३३॥
स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवयोधमुख्यैःयुधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रयातः ॥३४॥
स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम्दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत्तमरिं बलेन ॥३५॥
गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनायस धर्मराजो निहताश्वसूते; रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥३६॥
तच्चापि शल्यस्य निशम्य कर्म; महात्मनो भागमथावशिष्टम्स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तमिन्द्रावरजस्य चक्रे ॥३७॥
स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम्नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् ॥३८॥
निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेणअभून्न यद्भस्मसान्मद्रराज;स्तदद्भुतं मे प्रतिभाति राजन् ॥३९॥
ततस्तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम्चिक्षेप वेगात्सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम् ॥४०॥
दीप्तामथैनां महता बलेन; सविस्फुलिङ्गां सहसा पतन्तीम्प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीमिवोल्काम् ॥४१॥
तां कालरात्रीमिव पाशहस्तां; यमस्य धात्रीमिव चोग्ररूपाम्सब्रह्मदण्डप्रतिमाममोघां; ससर्ज यत्तो युधि धर्मराजः ॥४२॥
गन्धस्रगग्र्यासनपानभोजनै;रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥४३॥
ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणामसुदेहभक्षाम्भूम्यन्तरिक्षादिजलाशयानि; प्रसह्य भूतानि निहन्तुमीशाम् ॥४४॥
घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीयदण्डाम्त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां; ब्रह्मद्विषामन्तकरीममोघाम् ॥४५॥
बलप्रयत्नादधिरूढवेगां; मन्त्रैश्च घोरैरभिमन्त्रयित्वाससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेस्तदानीम् ॥४६॥
हतोऽस्यसावित्यभिगर्जमानो; रुद्रोऽन्तकायान्तकरं यथेषुम्प्रसार्य बाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्निव धर्मराजः ॥४७॥
तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम्प्रतिग्रहायाभिननर्द शल्यः; सम्यग्घुतामग्निरिवाज्यधाराम् ॥४८॥
सा तस्य मर्माणि विदार्य शुभ्र;मुरो विशालं च तथैव वर्मविवेश गां तोयमिवाप्रसक्ता; यशो विशालं नृपतेर्दहन्ती ॥४९॥
नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसंभवेनसंसिक्तगात्रो रुधिरेण सोऽभू;त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥५०॥
प्रसार्य बाहू स रथाद्गतो गां; संछिन्नवर्मा कुरुनन्दनेनमहेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गमिवाचलस्य ॥५१॥
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ॥५२॥
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितःप्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः ॥५३॥
प्रियया कान्तया कान्तः पतमान इवोरसिचिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुःसर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ॥५४॥
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुनासम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ॥५५॥
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ॥५६॥
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्व्यधमद्द्विषतः संख्ये खगराडिव पन्नगान्देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥५७॥
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तवनिमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताःसंन्यस्तकवचा देहैर्विपत्रायुधजीविताः ॥५८॥
ततः शल्ये निपतिते मद्रराजानुजो युवाभ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ॥५९॥
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ॥६०॥
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निवकार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥६१॥
ततोऽस्य दीप्यमानेन सुदृढेन शितेन चप्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥६२॥
सकुण्डलं तद्ददृशे पतमानं शिरो रथात्पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ॥६३॥
तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात्रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥६४॥
विचित्रकवचे तस्मिन्हते मद्रनृपानुजेहाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ॥६५॥
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताःवित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् ॥६६॥
तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभशिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ॥६७॥
तमायान्तं महेष्वासमप्रसह्यं दुरासदम्हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥६८॥
तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौहार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ॥६९॥
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥७०॥
चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोःआकाशे समपश्याम पतंगानिव शीघ्रगान् ॥७१॥
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैःचापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥७२॥
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुंगवःअन्यदादत्त वेगेन वेगवत्तरमायुधम् ॥७३॥
तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम्हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥७४॥
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैःअश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥७५॥
मद्रराजे हते राजन्विरथे कृतवर्मणिदुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥७६॥
तत्परे नावबुध्यन्त सैन्येन रजसा वृतेबलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ॥७७॥
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥७८॥
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्जवेनापततः पार्थानेकः सर्वानवारयत् ॥७९॥
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ॥८०॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥८१॥
ततो युधिष्ठिरो राजा त्वरमाणो महारथःचतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणःविव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ॥८२॥
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम्समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥८३॥
ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥८४॥
एवमेतन्महाराज युद्धशेषमवर्तततव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥८५॥
तस्मिन्महेष्वासवरे विशस्ते; संग्राममध्ये कुरुपुंगवेनपार्थाः समेताः परमप्रहृष्टाः; शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥८६॥
युधिष्ठिरं च प्रशशंसुराजौ; पुरा सुरा वृत्रवधे यथेन्द्रम्चक्रुश्च नानाविधवाद्यशब्दा;न्निनादयन्तो वसुधां समन्तात् ॥८७॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 16

0
Adhyaya 16Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0