Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
पातिते युधि दुर्धर्षे मद्रराजे महारथेतावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ॥१॥
वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवेअपारे पारमिच्छन्तो हते शूरे महात्मनि ॥२॥
मद्रराजे महाराज वित्रस्ताः शरविक्षताःअनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥३॥
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इवमध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना ॥४॥
न संधातुमनीकानि न च राजन्पराक्रमेआसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥५॥
भीष्मे द्रोणे च निहते सूतपुत्रे च भारतयद्दुःखं तव योधानां भयं चासीद्विशां पतेतद्भयं स च नः शोको भूय एवाभ्यवर्तत ॥६॥
निराशाश्च जये तस्मिन्हते शल्ये महारथेहतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैःमद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥७॥
अश्वानन्ये गजानन्ये रथानन्ये महारथाःआरुह्य जवसंपन्नाः पादाताः प्राद्रवन्भयात् ॥८॥
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणःसंप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ॥९॥
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशःधावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ॥१०॥
तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान्अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥११॥
बाणशब्दरवश्चापि सिंहनादश्च पुष्कलःशङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥१२॥
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥१३॥
अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरःअद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥१४॥
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरःनिःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ॥१५॥
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम्अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत्अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ॥१६॥
अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन्विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥१७॥
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिःअद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥१८॥
अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवेअद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ॥१९॥
हते दुर्योधने युद्धे शक्रेणेवासुरे मयेयत्कृतं भीमसेनेन दुःशासनवधे तदानान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ॥२०॥
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम्मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥२१॥
अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौनिहते सौबले शूरे गान्धारेषु च सर्वशः ॥२२॥
कथं तेषां जयो न स्याद्येषां योद्धा धनंजयःसात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥२३॥
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौशिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥२४॥
येषां च जगतां नाथो नाथः कृष्णो जनार्दनःकथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥२५॥
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव चतथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥२६॥
कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम्यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ॥२७॥
इत्येवं वदमानास्ते हर्षेण महता युताःप्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ॥२८॥
धनंजयो रथानीकमभ्यवर्तत वीर्यवान्माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥२९॥
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव ॥३०॥
न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम्जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ॥३१॥
जघने युध्यमानं हि कौन्तेयो मां धनंजयःनोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ॥३२॥
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम्सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥३३॥
सिंहनादांश्च बहुशः शृणु घोरान्भयानकान्तस्माद्याहि शनैः सूत जघनं परिपालय ॥३४॥
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषुपुनरावर्तते तूर्णं मामकं बलमोजसा ॥३५॥
तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचःसारथिर्हेमसंछन्नाञ्शनैरश्वानचोदयत् ॥३६॥
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयःएकविंशतिसाहस्राः संयुगायावतस्थिरे ॥३७॥
नानादेशसमुद्भूता नानारञ्जितवाससःअवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥३८॥
तेषामापततां तत्र संहृष्टानां परस्परम्संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥३९॥
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम्बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ॥४०॥
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयःप्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥४१॥
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाःधार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम्परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥४२॥
स वध्यमानः समरे पदातिगणसंवृतःन चचाल रथोपस्थे मैनाक इव पर्वतः ॥४३॥
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम्निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ॥४४॥
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैःसोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥४५॥
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥४६॥
रथाश्वद्विपहीनांस्तु तान्भीमो गदया बलीएकविंशतिसाहस्रान्पदातीनवपोथयत् ॥४७॥
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमःधृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ॥४८॥
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताःसंभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥४९॥
नानापुष्पस्रजोपेता नानाकुण्डलधारिणःनानाजात्या हतास्तत्र नानादेशसमागताः ॥५०॥
पताकाध्वजसंछन्नं पदातीनां महद्बलम्निकृत्तं विबभौ तत्र घोररूपं भयानकम् ॥५१॥
युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाःअभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥५२॥
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान्नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् ॥५३॥
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम्यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥५४॥
नातिदूरापयातं तु कृतबुद्धिं पलायनेदुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥५५॥
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वायत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥५६॥
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौयदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् ॥५७॥
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान्अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् ॥५८॥
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताःयदा शूरं च भीरुं च मारयत्यन्तकः सदाको नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः ॥५९॥
श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम्सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥६०॥
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाःअचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते ॥६१॥
श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाःपुनरेवान्ववर्तन्त पाण्डवानाततायिनः ॥६२॥
तानापतत एवाशु व्यूढानीकाः प्रहारिणःप्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः ॥६३॥
धनंजयो रथेनाजावभ्यवर्तत वीर्यवान्विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ॥६४॥
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलःजवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् ॥६५॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 18

0
Adhyaya 18Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0