Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारतवध्यमाने बले चैव भीमसेनेन संयुगे ॥१॥
चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम्दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ॥२॥
समेत्य समरे राजन्हतशेषाः सुतास्तवअदृश्यमाने कौरव्ये पुत्रे दुर्योधने तवसोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥३॥
दुर्मर्षणो महाराज जैत्रो भूरिबलो रविःइत्येते सहिता भूत्वा तव पुत्राः समन्ततःभीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ॥४॥
ततो भीमो महाराज स्वरथं पुनरास्थितःमुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥५॥
ते कीर्यमाणा भीमेन पुत्रास्तव महारणेभीमसेनमपासेधन्प्रवणादिव कुञ्जरम् ॥६॥
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य हक्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥७॥
ततोऽपरेण भल्लेन सर्वावरणभेदिनाश्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥८॥
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निवपातयामास कौरव्यं रथोपस्थादरिंदमःस पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥९॥
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिषशतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥१०॥
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ॥११॥
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाःवसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥१२॥
ततोऽपरेण तीक्ष्णेन नाराचेन परंतपःदुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥१३॥
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरःगिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥१४॥
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तवएकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखेतौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥१५॥
ततो यतन्तमपरमभिवीक्ष्य सुतं तवभल्लेन युधि विव्याध भीमो दुर्विषहं रणेस पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ॥१६॥
दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगेअमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ॥१७॥
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम्विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥१८॥
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधेअथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥१९॥
ततोऽन्यद्धनुरादाय भीमसेनो महारथःअवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ॥२०॥
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम्यादृशं समरे पूर्वं जम्भवासवयोरभूत् ॥२१॥
तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैःसमाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ॥२२॥
ततः श्रुतर्वा संक्रुद्धो धनुरायम्य सायकैःभीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥२३॥
सोऽतिविद्धो महाराज तव पुत्रेण धन्विनाभीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥२४॥
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिषसारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ॥२५॥
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिःअवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥२६॥
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणीअथास्याददतः खड्गं शतचन्द्रं च भानुमत्क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ॥२७॥
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनःपपात कायः स रथाद्वसुधामनुनादयन् ॥२८॥
तस्मिन्निपतिते वीरे तावका भयमोहिताःअभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः ॥२९॥
तानापतत एवाशु हतशेषाद्बलार्णवात्दंशितः प्रतिजग्राह भीमसेनः प्रतापवान्ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥३०॥
ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैःपीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥३१॥
ततः पञ्चशतान्हत्वा सवरूथान्महारथान्जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥३२॥
हत्वा दश सहस्राणि पत्तीनां परमेषुभिःवाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥३३॥
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तवमेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥३४॥
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ॥३५॥
विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान्दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥३६॥
हतभूयिष्ठयोधा तु तव सेना विशां पतेकिंचिच्छेषा महाराज कृपणा समपद्यत ॥३७॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 25

0
Adhyaya 25Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0