Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाःतं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥१॥
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम्स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ॥२॥
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ॥३॥
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते ॥४॥
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव ॥५॥
श्रीवासुदेव उवाच
मायाविन इमां मायां मायया जहि भारतमायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥६॥
क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य हजहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् ॥७॥
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाःक्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना ॥८॥
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरःहिरण्यकशिपुश्चैव क्रिययैव निषूदितौवृत्रश्च निहतो राजन्क्रिययैव न संशयः ॥९॥
तथा पौलस्त्यतनयो रावणो नाम राक्षसःरामेण निहतो राजन्सानुबन्धः सहानुगःक्रियया योगमास्थाय तथा त्वमपि विक्रम ॥१०॥
क्रियाभ्युपायैर्निहतो मया राजन्पुरातनेतारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥११॥
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभोसुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥१२॥
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभोक्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर ॥१३॥
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथाक्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥१४॥
संजय उवाच
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतःजलस्थं तं महाराज तव पुत्रं महाबलम्अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥१५॥
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वयासर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते ॥१६॥
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनःउत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥१७॥
स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतःयस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥१८॥
सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदिव्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥१९॥
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवःकौरवेयो विशेषेण कुले जन्म च संस्मर ॥२०॥
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनःयुद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि ॥२१॥
अयुद्धमव्यवस्थानं नैष धर्मः सनातनःअनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ॥२२॥
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुःइमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा ॥२३॥
संबन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथाघातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम् ॥२४॥
शूरमानी न शूरस्त्वं मिथ्या वदसि भारतशूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥२५॥
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथंचनब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम् ॥२६॥
स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनःघातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥२७॥
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षयाक्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन ॥२८॥
यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम्अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान् ॥२९॥
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारतकथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥३०॥
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधनक्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥३१॥
क्व ते कृतास्त्रता याता किं च शेषे जलाशयेस त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥३२॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत ॥३३॥
एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मनातं कुरुष्व यथातथ्यं राजा भव महारथ ॥३४॥
दुर्योधन उवाच
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत्न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥३५॥
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिःएकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम् ॥३६॥
न प्राणहेतोर्न भयान्न विषादाद्विशां पतेइदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥३७॥
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तवअहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥३८॥
युधिष्ठिर उवाच
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहेतदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥३९॥
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहिनिहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥४०॥
दुर्योधन उवाच
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दनत इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥४१॥
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम्नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥४२॥
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिरभङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥४३॥
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित्द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥४४॥
अस्त्विदानीमियं राजन्केवला पृथिवी तवअसहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥४५॥
सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपिभवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥४६॥
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितःरतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥४७॥
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जराएषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः ॥४८॥
वनमेव गमिष्यामि वसानो मृगचर्मणीन हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो ॥४९॥
गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम्हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् ॥५०॥
युधिष्ठिर उवाच
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाःनैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥५१॥
यदि चापि समर्थः स्यास्त्वं दानाय सुयोधननाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥५२॥
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥५३॥
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् ॥५४॥
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसित्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥५५॥
धर्मतो याचमानानां शमार्थं च कुलस्य नःवार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् ॥५६॥
किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमःअभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् ॥५७॥
न त्वमद्य महीं दातुमीशः कौरवनन्दनआच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसिमां तु निर्जित्य संग्रामे पालयेमां वसुंधराम् ॥५८॥
सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारततन्मात्रमपि नो मह्यं न ददाति पुरा भवान् ॥५९॥
स कथं पृथिवीमेतां प्रददासि विशां पतेसूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥६०॥
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्को हि मूढो व्यवस्येत शत्रोर्दातुं वसुंधराम् ॥६१॥
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसेपृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे ॥६२॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥६३॥
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम्संशयः सर्वभूतानां विजये नो भविष्यति ॥६४॥
जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्ततेजीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः ॥६५॥
दहने हि कृतो यत्नस्त्वयास्मासु विशेषतःआशीविषैर्विषैश्चापि जले चापि प्रवेशनैःत्वया विनिकृता राजन्राज्यस्य हरणेन च ॥६६॥
एतस्मात्कारणात्पाप जीवितं ते न विद्यतेउत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति ॥६७॥
संजय उवाच
एवं तु विविधा वाचो जययुक्ताः पुनः पुनःकीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप ॥६८॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 30

0
Adhyaya 30Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0