Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
धृतराष्ट्र उवाच
एवं संतर्ज्यमानस्तु मम पुत्रो महीपतिःप्रकृत्या मन्युमान्वीरः कथमासीत्परंतपः ॥१॥
न हि संतर्जना तेन श्रुतपूर्वा कदाचनराजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥२॥
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव संजय ॥३॥
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतःविहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ॥४॥
श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनःकिमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व संजय ॥५॥
संजय उवाच
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजःयुधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥६॥
श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपःदीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ॥७॥
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनःमनश्चकार युद्धाय राजानं चाभ्यभाषत ॥८॥
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाःअहमेकः परिद्यूनो विरथो हतवाहनः ॥९॥
आत्तशस्त्रै रथगतैर्बहुभिः परिवारितःकथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ॥१०॥
एकैकेन तु मां यूयं योधयध्वं युधिष्ठिरन ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि ॥११॥
विशेषतो विकवचः श्रान्तश्चापः समाश्रितःभृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥१२॥
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः ॥१३॥
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाःएकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे ॥१४॥
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिपधर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥१५॥
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगेअन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा ॥१६॥
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षयेतेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः ॥१७॥
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ॥१८॥
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोःमद्रराजस्य शल्यस्य भूरिश्रवस एव च ॥१९॥
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य चमित्राणां सुहृदां चैव बान्धवानां तथैव च ॥२०॥
आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सहएतावदुक्त्वा वचनं विरराम जनाधिपः ॥२१॥
युधिष्ठिर उवाच
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधनदिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥२२॥
दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम्यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि ॥२३॥
एक एकेन संगम्य यत्ते संमतमायुधम्तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥२४॥
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि ॥२५॥
दुर्योधन उवाच
एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयतेआयुधानामियं चापि वृता त्वत्संमते गदा ॥२६॥
भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यतेपदातिर्गदया संख्ये स युध्यतु मया सह ॥२७॥
वृत्तानि रथयुद्धानि विचित्राणि पदे पदेइदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ॥२८॥
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाःयुद्धानामपि पर्यायो भवत्वनुमते तव ॥२९॥
गदया त्वां महाबाहो विजेष्यामि सहानुजम्पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः ॥३०॥
युधिष्ठिर उवाच
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधनएक एकेन संगम्य संयुगे गदया बली ॥३१॥
पुरुषो भव गान्धारे युध्यस्व सुसमाहितःअद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः ॥३२॥
संजय उवाच
एतत्स नरशार्दूलो नामृष्यत तवात्मजःसलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥३३॥
तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनःवाचं न ममृषे धीमानुत्तमाश्वः कशामिव ॥३४॥
संक्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥३५॥
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव ॥३६॥
ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम्गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥३७॥
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्प्रजानामिव संक्रुद्धं शूलपाणिमवस्थितम्सगदो भारतो भाति प्रतपन्भास्करो यथा ॥३८॥
तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम्मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् ॥३९॥
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ॥४०॥
तमुत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशःपाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥४१॥
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तवउद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥४२॥
त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदःप्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् ॥४३॥
अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाःगमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ॥४४॥
उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तवअतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥४५॥
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्शरीरं स्म तदा भाति स्रवन्निव महीधरः ॥४६॥
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाःवैवस्वतमिव क्रुद्धं किंकरोद्यतपाणिनम् ॥४७॥
स मेघनिनदो हर्षान्नदन्निव च गोवृषःआजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥४८॥
दुर्योधन उवाच
एकैकेन च मां यूयमासीदत युधिष्ठिरन ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि ॥४९॥
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतःभृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥५०॥
युधिष्ठिर उवाच
नाभूदियं तव प्रज्ञा कथमेवं सुयोधनयदाभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥५१॥
आमुञ्च कवचं वीर मूर्धजान्यमयस्व चयच्चान्यदपि ते नास्ति तदप्यादत्स्व भारतइममेकं च ते कामं वीर भूयो ददाम्यहम् ॥५२॥
पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसितं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहिऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥५३॥
संजय उवाच
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥५४॥
सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥५५॥
संनद्धः स गदी राजन्सज्जः संग्राममूर्धनिअब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥५६॥
भ्रातॄणां भवतामेको युध्यतां गदया मयासहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥५७॥
अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभयोत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे ॥५८॥
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्गदया पुरुषव्याघ्र हेमपट्टविनद्धया ॥५९॥
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तयगदया वो हनिष्यामि सर्वानेव समागतान्गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह ॥६०॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 31

0
Adhyaya 31Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0