Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
जनमेजय उवाच
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिःकथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् ॥१॥
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तमएतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम ॥२॥
वैशंपायन उवाच
राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत्आहूता बलवद्भिर्हि तत्र तत्र सरस्वती ॥३॥
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदासरस्वती ओघवती सुवेणुर्विमलोदका ॥४॥
पितामहस्य महतो वर्तमाने महीतलेवितते यज्ञवाटे वै समेतेषु द्विजातिषु ॥५॥
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथादेवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥६॥
तत्र चैव महाराज दीक्षिते प्रपितामहेयजतस्तत्र सत्रेण सर्वकामसमृद्धिना ॥७॥
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदाउपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह ॥८॥
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाःवादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥९॥
तस्य यज्ञस्य संपत्त्या तुतुषुर्देवता अपिविस्मयं परमं जग्मुः किमु मानुषयोनयः ॥१०॥
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहेअब्रुवन्नृषयो राजन्नायं यज्ञो महाफलःन दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ॥११॥
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम्पितामहेन यजता आहूता पुष्करेषु वैसुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥१२॥
तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम्पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे ॥१३॥
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वतीपितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम् ॥१४॥
नैमिषे मुनयो राजन्समागम्य समासतेतत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥१५॥
तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनःते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ॥१६॥
सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिःसमागतानां राजेन्द्र सहायार्थं महात्मनाम्आजगाम महाभागा तत्र पुण्या सरस्वती ॥१७॥
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम्आगता सरितां श्रेष्ठा तत्र भारत पूजिता ॥१८॥
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥१९॥
विशालां तु गयेष्वाहुरृषयः संशितव्रताःसरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी ॥२०॥
औद्दालकेस्तथा यज्ञे यजतस्तत्र भारतसमेते सर्वतः स्फीते मुनीनां मण्डले तदा ॥२१॥
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनःऔद्दालकेन यजता पूर्वं ध्याता सरस्वती ॥२२॥
आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात्पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैःमनोह्रदेति विख्याता सा हि तैर्मनसा हृता ॥२३॥
सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेवितेकुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनःआजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥२४॥
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मनासमाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥२५॥
दक्षेण यजता चापि गङ्गाद्वारे सरस्वतीविमलोदा भगवती ब्रह्मणा यजता पुनःसमाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥२६॥
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताःसप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि ॥२७॥
इति सप्त सरस्वत्यो नामतः परिकीर्तिताःसप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥२८॥
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणःआपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥२९॥
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारतस्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥३०॥
तद्रेतः स तु जग्राह कलशे वै महातपाःसप्तधा प्रविभागं तु कलशस्थं जगाम हतत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥३१॥
वायुवेगो वायुबलो वायुहा वायुमण्डलःवायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान्एवमेते समुत्पन्ना मरुतां जनयिष्णवः ॥३२॥
इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुविमहर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् ॥३३॥
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम्क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥३४॥
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत्प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥३५॥
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैःविज्ञप्तो वै महादेव ऋषेरर्थे नराधिपनायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥३६॥
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हसुराणां हितकामार्थं महादेवोऽभ्यभाषत ॥३७॥
भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वैहर्षस्थानं किमर्थं वै तवेदं मुनिसत्तमतपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥३८॥
ऋषिरुवाचकिं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम्यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो ॥३९॥
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥४०॥
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमताअङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् ॥४१॥
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम्तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥४२॥
ऋषिरुवाचनान्यं देवादहं मन्ये रुद्रात्परतरं महत्सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥४३॥
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणःत्वामेव सर्वं विशति पुनरेव युगक्षये ॥४४॥
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मयात्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥४५॥
सर्वस्त्वमसि देवानां कर्ता कारयिता च हत्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ॥४६॥
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत्भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति ॥४७॥
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधाआश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ॥४८॥
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरःन तस्य दुर्लभं किंचिद्भवितेह परत्र चसारस्वतं च लोकं ते गमिष्यन्ति न संशयः ॥४९॥
एतन्मङ्कणकस्यापि चरितं भूरितेजसःस हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना ॥५०॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 37

0
Adhyaya 37Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0