Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
वैशंपायन उवाच
उषित्वा तत्र रामस्तु संपूज्याश्रमवासिनःतथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥१॥
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य चपूजितो मुनिसंघैश्च प्रातरुत्थाय लाङ्गली ॥२॥
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारतप्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥३॥
तत औशनसं तीर्थमाजगाम हलायुधःकपालमोचनं नाम यत्र मुक्तो महामुनिः ॥४॥
महता शिरसा राजन्ग्रस्तजङ्घो महोदरःराक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ॥५॥
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मनायत्रास्य नीतिरखिला प्रादुर्भूता महात्मनःतत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥६॥
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥७॥
जनमेजय उवाच
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिःमुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥८॥
वैशंपायन उवाच
पुरा वै दण्डकारण्ये राघवेण महात्मनावसता राजशार्दूल राक्षसास्तत्र हिंसिताः ॥९॥
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनःक्षुरेण शितधारेण तत्पपात महावने ॥१०॥
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छयावने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा ॥११॥
स तेन लग्नेन तदा द्विजातिर्न शशाक हअभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥१२॥
स पूतिना विस्रवता वेदनार्तो महामुनिःजगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् ॥१३॥
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाःकथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥१४॥
आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान्स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥१५॥
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदासर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् ॥१६॥
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजःतत औशनसे तीर्थे तस्योपस्पृशतस्तदातच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥१७॥
ततः स विरुजो राजन्पूतात्मा वीतकल्मषःआजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥१८॥
सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाःकथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥१९॥
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानदकपालमोचनमिति नाम चक्रुः समागताः ॥२०॥
तत्र दत्त्वा बहून्दायान्विप्रान्संपूज्य माधवःजगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा ॥२१॥
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारतब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः ॥२२॥
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितःजगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् ॥२३॥
रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारतदेहन्यासे कृतमना विचिन्त्य बहुधा बहु ॥२४॥
ततः सर्वानुपादाय तनयान्वै महातपाःरुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् ॥२५॥
विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाःतं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ॥२६॥
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्पुण्यां तीर्थशतोपेतां विप्रसंघैर्निषेविताम् ॥२७॥
स तत्र विधिना राजन्नाप्लुतः सुमहातपाःज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमःसुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥२८॥
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥२९॥
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधःदत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः ॥३०॥
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहःयत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतःतपसा महता राजन्प्राप्तवानृषिसत्तमः ॥३१॥
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाःब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिःमहातपस्वी भगवानुग्रतेजा महातपाः ॥३२॥
तत्राजगाम बलवान्बलभद्रः प्रतापवान् ॥३३॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 38

0
Adhyaya 38Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0