Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
वैशंपायन उवाच
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनःगार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ॥१॥
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाःकर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥२॥
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियःकाञ्चने लोष्टके चैव समदर्शी महातपाः ॥३॥
देवताः पूजयन्नित्यमतिथींश्च द्विजैः सहब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥४॥
ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकःजैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥५॥
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिःयोगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥६॥
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥७॥
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ॥८॥
आहारकाले मतिमान्परिव्राड्जनमेजयउपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ॥९॥
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥१०॥
देवलस्तु यथाशक्ति पूजयामास भारतऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ॥११॥
कदाचित्तस्य नृपते देवलस्य महात्मनःचिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥१२॥
समास्तु समतिक्रान्ता बह्व्यः पूजयतो ममन चायमलसो भिक्षुरभ्यभाषत किंचन ॥१३॥
एवं विगणयन्नेव स जगाम महोदधिम्अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ॥१४॥
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ॥१५॥
ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुःकथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ॥१६॥
इत्येवं चिन्तयामास महर्षिरसितस्तदास्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ॥१७॥
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम हकलशं जलपूर्णं वै गृहीत्वा जनमेजय ॥१८॥
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिःआसीनमाश्रमे तत्र जैगीषव्यमपश्यत ॥१९॥
न व्याहरति चैवैनं जैगीषव्यः कथंचनकाष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ॥२०॥
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ॥२१॥
असितो देवलो राजंश्चिन्तयामास बुद्धिमान्दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ॥२२॥
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमःमया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ॥२३॥
एवं विगणयन्नेव स मुनिर्मन्त्रपारगःउत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पतेजिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥२४॥
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥२५॥
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतःअपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ॥२६॥
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यतपितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ॥२७॥
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ॥२८॥
लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम्ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ॥२९॥
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाःतेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥३०॥
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाःतेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ॥३१॥
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाःतत्स्थानमनुसंप्राप्तमन्वपश्यत देवलः ॥३२॥
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥३३॥
यजन्ते पुण्डरीकेण राजसूयेन चैव येतेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥३४॥
अश्वमेधं क्रतुवरं नरमेधं तथैव चआहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥३५॥
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च येतेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥३६॥
द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृपतेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥३७॥
मित्रावरुणयोर्लोकानादित्यानां तथैव चसलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥३८॥
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेःतानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥३९॥
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥४०॥
त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसापतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥४१॥
ततो मुनिवरं भूयो जैगीषव्यमथासितःनान्वपश्यत योगस्थमन्तर्हितमरिंदम ॥४२॥
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलःप्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥४३॥
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान्प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ॥४४॥
जैगीषव्यं न पश्यामि तं शंसत महौजसम्एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥४५॥
सिद्धा ऊचुःशृणु देवल भूतार्थं शंसतां नो दृढव्रतजैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ॥४६॥
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्असितो देवलस्तूर्णमुत्पपात पपात च ॥४७॥
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव हन देवल गतिस्तत्र तव गन्तुं तपोधनब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ॥४८॥
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनःआनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥४९॥
स्वमाश्रमपदं पुण्यमाजगाम पतंगवत्प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥५०॥
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तयादृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥५१॥
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलःविनयावनतो राजन्नुपसर्प्य महामुनिम्मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥५२॥
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सःविधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ॥५३॥
संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाःसर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥५४॥
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सहततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥५५॥
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथादिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥५६॥
ततस्तु फलमूलानि पवित्राणि च भारतपुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥५७॥
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिःअभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥५८॥
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमःमोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ॥५९॥
इति निश्चित्य मनसा देवलो राजसत्तमत्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥६०॥
एवमादीनि संचिन्त्य देवलो निश्चयात्ततःप्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥६१॥
ततो देवाः समागम्य बृहस्पतिपुरोगमाःजैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥६२॥
अथाब्रवीदृषिवरो देवान्वै नारदस्तदाजैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥६३॥
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसःमैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥६४॥
तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यःअवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ॥६५॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 49

0
Adhyaya 49Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0