Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोःअथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् ॥१॥
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतःकस्य वा को गुणो भूयानेतद्वद जनार्दन ॥२॥
वासुदेव उवाच
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरःकृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥३॥
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यतिअन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् ॥४॥
मायया निर्जिता देवैरसुरा इति नः श्रुतम्विरोचनश्च शक्रेण मायया निर्जितः सखेमायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ॥५॥
प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजयऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम् ॥६॥
सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनःमायाविनं च राजानं माययैव निकृन्ततु ॥७॥
यद्येष बलमास्थाय न्यायेन प्रहरिष्यतिविषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥८॥
पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मेधर्मराजापराधेन भयं नः पुनरागतम् ॥९॥
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम्तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥१०॥
अबुद्धिरेषा महती धर्मराजस्य पाण्डवयदेकविजये युद्धं पणितं कृतमीदृशम्सुयोधनः कृती वीर एकायनगतस्तथा ॥११॥
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनःश्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥१२॥
पुनरावर्तमानानां भग्नानां जीवितैषिणाम्भेतव्यमरिशेषाणामेकायनगता हि ते ॥१३॥
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ॥१४॥
को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत्अपि वो निर्जितं राज्यं न हरेत सुयोधनः ॥१५॥
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमःचरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया ॥१६॥
एवं चेन्न महाबाहुरन्यायेन हनिष्यतिएष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ॥१७॥
धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनःप्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् ॥१८॥
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणेमण्डलानि विचित्राणि यमकानीतराणि च ॥१९॥
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि चव्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव ॥२०॥
तथैव तव पुत्रोऽपि गदामार्गविशारदःव्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥२१॥
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषितेवैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥२२॥
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौयुयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥२३॥
मण्डलानि विचित्राणि चरतोर्नृपभीमयोःगदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥२४॥
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधेक्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥२५॥
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिवगदानिर्घातसंह्रादः प्रहाराणामजायत ॥२६॥
तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम्उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥२७॥
तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौअभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ॥२८॥
तयोः समभवद्युद्धं घोररूपमसंवृतम्गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥२९॥
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौअन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ॥३०॥
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौददृशाते हिमवति पुष्पिताविव किंशुकौ ॥३१॥
दुर्योधनेन पार्थस्तु विवरे संप्रदर्शितेईषदुत्स्मयमानस्तु सहसा प्रससार ह ॥३२॥
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरःअवाक्षिपद्गदां तस्मै वेगेन महता बली ॥३३॥
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पतेअपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥३४॥
मोक्षयित्वा प्रहारं तं सुतस्तव स संभ्रमात्भीमसेनं च गदया प्राहरत्कुरुसत्तमः ॥३५॥
तस्य विष्यन्दमानेन रुधिरेणामितौजसःप्रहारगुरुपाताच्च मूर्छेव समजायत ॥३६॥
दुर्योधनस्तं च वेद पीडितं पाण्डवं रणेधारयामास भीमोऽपि शरीरमतिपीडितम् ॥३७॥
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवेअतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥३८॥
ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम्वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् ॥३९॥
तमापतन्तं संप्रेक्ष्य संरब्धममितौजसम्मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥४०॥
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाःइयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् ॥४१॥
अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम्अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् ॥४२॥
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतःऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥४३॥
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणाऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ॥४४॥
स पपात नरव्याघ्रो वसुधामनुनादयन्भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥४५॥
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात चचचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥४६॥
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्महास्वना पुनर्दीप्ता सनिर्घाता भयंकरीपपात चोल्का महती पतिते पृथिवीपतौ ॥४७॥
तथा शोणितवर्षं च पांसुवर्षं च भारतववर्ष मघवांस्तत्र तव पुत्रे निपातिते ॥४८॥
यक्षाणां राक्षसानां च पिशाचानां तथैव चअन्तरिक्षे महानादः श्रूयते भरतर्षभ ॥४९॥
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् ॥५०॥
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सहमुमुचुस्ते महानादं तव पुत्रे निपातिते ॥५१॥
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥५२॥
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैःनृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥५३॥
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव चप्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ॥५४॥
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तमनद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् ॥५५॥
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन्दुर्योधने तदा राजन्पतिते तनये तव ॥५६॥
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सहआविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥५७॥
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथाकथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥५८॥
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाःनरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥५९॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 57

0
Adhyaya 57Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0