Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
धृतराष्ट्र उवाच
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमःकिमब्रवीत्तदा सूत बलदेवो महाबलः ॥१॥
गदायुद्धविशेषज्ञो गदायुद्धविशारदःकृतवान्रौहिणेयो यत्तन्ममाचक्ष्व संजय ॥२॥
संजय उवाच
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥३॥
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधःकुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥४॥
अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमेनैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥५॥
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयःअयं त्वशास्त्रविन्मूढः स्वच्छन्दात्संप्रवर्तते ॥६॥
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥७॥
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनःबहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥८॥
तमुत्पतन्तं जग्राह केशवो विनयानतःबाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥९॥
सितासितौ यदुवरौ शुशुभातेऽधिकं ततःनभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥१०॥
उवाच चैनं संरब्धं शमयन्निव केशवःआत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथाविपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥११॥
आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत्तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् ॥१२॥
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाःस्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥१३॥
प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ हसुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवेइति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ॥१४॥
मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणाऊरू भेत्स्यति ते भीमो गदयेति परंतपअतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् ॥१५॥
यौनैर्हार्दैश्च संबन्धैः संबद्धाः स्मेह पाण्डवैःतेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ ॥१६॥
राम उवाच
धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छतिअर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः ॥१७॥
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते ॥१८॥
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् ॥१९॥
वासुदेव उवाच
अरोषणो हि धर्मात्मा सततं धर्मवत्सलःभवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥२०॥
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य चआनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः ॥२१॥
संजय उवाच
धर्मच्छलमपि श्रुत्वा केशवात्स विशां पतेनैव प्रीतमना रामो वचनं प्राह संसदि ॥२२॥
हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम्जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥२३॥
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः ॥२४॥
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य चहुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः ॥२५॥
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥२६॥
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पतेरामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥२७॥
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम् ॥२८॥
धर्मराज किमर्थं त्वमधर्ममनुमन्यसेहतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥२९॥
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदाउपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥३०॥
युधिष्ठिर उवाच
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरःपदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥३१॥
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह ॥३२॥
भीमसेनस्य तद्दुःखमतीव हृदि वर्ततेइति संचिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥३३॥
तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम्लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते ॥३४॥
संजय उवाच
इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम्काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः ॥३५॥
इत्युक्तो वासुदेवेन भीमप्रियहितैषिणाअन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥३६॥
भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणःअभिवाद्याग्रतः स्थित्वा संप्रहृष्टः कृताञ्जलिः ॥३७॥
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्हर्षादुत्फुल्लनयनो जितकाशी विशां पते ॥३८॥
तवाद्य पृथिवी राजन्क्षेमा निहतकण्टकातां प्रशाधि महाराज स्वधर्ममनुपालयन् ॥३९॥
यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियःसोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते ॥४०॥
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनःराधेयः शकुनिश्चापि निहतास्तव शत्रवः ॥४१॥
सेयं रत्नसमाकीर्णा मही सवनपर्वताउपावृत्ता महाराज त्वामद्य निहतद्विषम् ॥४२॥
युधिष्ठिर उवाच
गतं वैरस्य निधनं हतो राजा सुयोधनःकृष्णस्य मतमास्थाय विजितेयं वसुंधरा ॥४३॥
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोःदिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥४४॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 59

0
Adhyaya 59Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0