Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
धृतराष्ट्र उवाच
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगेपाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय ॥१॥
संजय उवाच
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगेसिंहेनेव महाराज मत्तं वनगजं वने ॥२॥
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाःपाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ॥३॥
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरेनैतान्हर्षसमाविष्टानियं सेहे वसुंधरा ॥४॥
धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन्दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ॥५॥
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताःअब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥६॥
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम्कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् ॥७॥
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगेत्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥८॥
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशःदुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥९॥
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम्अशक्यमेतदन्येन संपादयितुमीदृशम् ॥१०॥
कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनिदुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया ॥११॥
सिंहेन महिषस्येव कृत्वा संगरमद्भुतम्दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ ॥१२॥
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम्मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥१३॥
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य चभीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥१४॥
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनःतथा त्वां निहतामित्रं वयं नन्दाम भारत ॥१५॥
दुर्योधनवधे यानि रोमाणि हृषितानि नःअद्यापि न विहृष्यन्ति तानि तद्विद्धि भारतइत्यब्रुवन्भीमसेनं वातिकास्तत्र संगताः ॥१६॥
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सहब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ॥१७॥
न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाःअसकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥१८॥
तदैवैष हतः पापो यदैव निरपत्रपःलुब्धः पापसहायश्च सुहृदां शासनातिगः ॥१९॥
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैःपाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥२०॥
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमःकिमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ॥२१॥
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाःदिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥२२॥
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपःअमर्षवशमापन्न उदतिष्ठद्विशां पते ॥२३॥
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत् ॥२४॥
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत्क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ॥२५॥
प्राणान्तकरणीं घोरां वेदनामविचिन्तयन्दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥२६॥
कंसदासस्य दायाद न ते लज्जास्त्यनेन वैअधर्मेण गदायुद्धे यदहं विनिपातितः ॥२७॥
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छताकिं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ॥२८॥
घातयित्वा महीपालानृजुयुद्धान्सहस्रशःजिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥२९॥
अहन्यहनि शूराणां कुर्वाणः कदनं महत्शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥३०॥
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मतेआचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम ॥३१॥
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥३२॥
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव चघटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः ॥३३॥
छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बलीत्वया निसृष्टेन हतः शैनेयेन दुरात्मना ॥३४॥
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषयाव्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ॥३५॥
पुनश्च पतिते चक्रे व्यसनार्तः पराजितःपातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् ॥३६॥
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगेऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥३७॥
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाःस्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥३८॥
वासुदेव उवाच
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवःसगणः ससुहृच्चैव पापमार्गमनुष्ठितः ॥३९॥
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौकर्णश्च निहतः संख्ये तव शीलानुवर्तकः ॥४०॥
याच्यमानो मया मूढ पित्र्यमंशं न दित्ससिपाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् ॥४१॥
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाःप्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥४२॥
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वलातदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः ॥४३॥
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिनानिकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ॥४४॥
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वनेयातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे ॥४५॥
अभिमन्युश्च यद्बाल एको बहुभिराहवेत्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥४६॥
दुर्योधन उवाच
अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरामूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया ॥४७॥
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम्तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ॥४८॥
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैःऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ॥४९॥
ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युतयूयं विहतसंकल्पाः शोचन्तो वर्तयिष्यथ ॥५०॥
संजय उवाच
अस्य वाक्यस्य निधने कुरुराजस्य भारतअपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ॥५१॥
अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाःसिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत ॥५२॥
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखःव्यराजतामलं चैव नभो वैडूर्यसंनिभम् ॥५३॥
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाःदुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् ॥५४॥
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि तेभीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥५५॥
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसःप्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥५६॥
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाःऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥५७॥
उपाया विहिता ह्येते मया तस्मान्नराधिपाःअन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥५८॥
ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुविन शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥५९॥
तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमःन शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना ॥६०॥
न च वो हृदि कर्तव्यं यदयं घातितो नृपःमिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः ॥६१॥
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिःसद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते ॥६२॥
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहेसाश्वनागरथाः सर्वे विश्रमामो नराधिपाः ॥६३॥
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सहपाञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत् ॥६४॥
ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवःहृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥६५॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 60

0
Adhyaya 60Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0