Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
जनमेजय उवाच
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरःगान्धार्याः प्रेषयामास वासुदेवं परंतपम् ॥१॥
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रतिन च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥२॥
निहतेषु तु योधेषु हते दुर्योधने तथापृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥३॥
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमेकिं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥४॥
न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मेयत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥५॥
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तमयच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥६॥
वैशंपायन उवाच
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिवतत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ ॥७॥
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगेव्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥८॥
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारतयुधिष्ठिरं महाराज महद्भयमथाविशत् ॥९॥
चिन्तयानो महाभागां गान्धारीं तपसान्विताम्घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥१०॥
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदागान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥११॥
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥१२॥
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यतिश्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥१३॥
एवं विचिन्त्य बहुधा भयशोकसमन्वितःवासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥१४॥
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत ॥१५॥
प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणेविमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥१६॥
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥१७॥
साह्यं तथा महाबाहो दत्तमस्माकमच्युतसारथ्येन च वार्ष्णेय भवता यद्धृता वयम् ॥१८॥
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणेकथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥१९॥
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः ॥२०॥
वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणाताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत ॥२१॥
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधवसा हि नित्यं महाभागा तपसोग्रेण कर्शिता ॥२२॥
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यतितस्याः प्रसादनं वीर प्राप्तकालं मतं मम ॥२३॥
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम्वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥२४॥
तत्र मे गमनं प्राप्तं रोचते तव माधवगान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम ॥२५॥
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययःहेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥२६॥
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसिपितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥२७॥
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ॥२८॥
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहःआमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् ॥२९॥
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकःन्यवेदयद्रथं सज्जं केशवाय महात्मने ॥३०॥
तं रथं यादवश्रेष्ठः समारुह्य परंतपःजगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥३१॥
ततः प्रायान्महाराज माधवो भगवान्रथीनागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥३२॥
प्रविश्य नगरं वीरो रथघोषेण नादयन्विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ॥३३॥
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥३४॥
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनःअभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥३५॥
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजःपाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह ॥३६॥
स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम्प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधिउवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः ॥३७॥
न तेऽस्त्यविदितं किंचिद्भूतभव्यस्य भारतकालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो ॥३८॥
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिःकथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥३९॥
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलःद्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः ॥४०॥
अज्ञातवासचर्या च नानावेशसमावृतैःअन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा ॥४१॥
मया च स्वयमागम्य युद्धकाल उपस्थितेसर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः ॥४२॥
त्वया कालोपसृष्टेन लोभतो नापवर्जिताःतवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥४३॥
भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण चद्रोणेन च सपुत्रेण विदुरेण च धीमतायाचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥४४॥
कालोपहतचित्तो हि सर्वो मुह्यति भारतयथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥४५॥
किमन्यत्कालयोगाद्धि दिष्टमेव परायणम्मा च दोषं महाराज पाण्डवेषु निवेशय ॥४६॥
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्धर्मतो न्यायतश्चैव स्नेहतश्च परंतप ॥४७॥
एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम्असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥४८॥
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम्गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् ॥४९॥
एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम्शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥५०॥
जानासि च महाबाहो धर्मराजस्य या त्वयिभक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥५१॥
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्दह्यते स्म दिवारात्रं न च शर्माधिगच्छति ॥५२॥
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति ॥५३॥
ह्रिया च परयाविष्टो भवन्तं नाधिगच्छतिपुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम् ॥५४॥
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमःउवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥५५॥
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रतेत्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥५६॥
जानामि च यथा राज्ञि सभायां मम संनिधौधर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम्उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् ॥५७॥
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचःशृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ॥५८॥
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजेएवं विदित्वा कल्याणि मा स्म शोके मनः कृथाःपाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥५९॥
शक्ता चासि महाभागे पृथिवीं सचराचराम्चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥६०॥
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्एवमेतन्महाबाहो यथा वदसि केशव ॥६१॥
आधिभिर्दह्यमानाया मतिः संचलिता ममसा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥६२॥
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशवत्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर ॥६३॥
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससापुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह ॥६४॥
तत एनां महाबाहुः केशवः शोककर्शिताम्हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥६५॥
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवःद्रौणेः संकल्पितं भावमन्वबुध्यत केशवः ॥६६॥
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य चद्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥६७॥
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाःद्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितःपाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥६८॥
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥६९॥
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालयभूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दनप्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥७०॥
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम्आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥७१॥
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम हशिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥७२॥
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् ॥७३॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 62

0
Adhyaya 62Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0